Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
स्फोटनिरूपणम् ।
४५१
ननु स्फोटस्य वर्णजातीनाञ्च नित्यतया ककार उत्पन्न इति न स्यात् । वायुमंयोगनिष्ठजातेः स्फोटे भाने कादिप्रतीतीनां भ्रमत्वापत्तिश्चेत्यत आह
कल्पितानामुपाधित्वं स्वीकृतं हि परैरपि ॥ ७० ॥ स्वरदैर्ध्याद्यपि ह्यन्ये वर्णेभ्योऽन्यस्य मन्वते ॥
स्वीकारस्थलमाह-स्वरदैयद्यपीति ॥ आदिनोत्पत्तिविनाशसंग्रहः । उदात्तत्वादि न वर्णनिष्ठम् । तस्यैकत्वाद् निय
मूलमवतारयति -* नन्विति* ॥ *वर्णजातीनामिति ॥ वर्णानां तद्वृत्तिकत्वादिजातीनां चेत्यर्थः ॥ *न स्यादिति* ॥ अयं भावः । उत्पन्नो नष्टो वा ककार इत्यादिप्रतीतिः ककारादिवर्णात्मकः स्फोटस्तद्वृत्तिजातिर्वोत्पत्त्यादिमत्त्वे विषयो वाच्यः । तथाच न सम्भव - ति । द्वयोरेव नित्यत्वाज्जायमानायास्तस्या विषयबाधेन भ्रमत्वापत्तेरिति तादृशप्रतीतिभ्रान्तत्व इष्टापत्तावाह -*वायुसंयोगेति* कादिप्रतीतीनां=ककारो गकार इत्यादिबुद्धीनाम् ॥ भ्रमत्वापत्तेरिति ॥ यथाश्रुताऽभिप्रायेणेदं पूर्वोक्ताऽन्तिमकल्पे भ्रमत्वाप्रसङ्गात् ॥
न च त्वन्मतेऽपि कत्वादीनां लौकिकविषयत्वानुपपत्तिः । तद्व्यञ्जकश्रोत्रसमवेतसमवायस्य लौकिकसन्निकर्षस्याभावादिति वा च्यम् । तन्मते कत्वादीनां वायुसंयोगवृत्तिधर्मत्वेन कत्वं साक्षात् -" करोमीति प्रतीत्या स्वसमवेतव्यञ्जकसमवायस्यैव संसर्ग तोपगमेन लौकिकविषयत्वाऽनपायात् । तादृशानेकप्रतीतीनां भ्रमत्वकल्पनाया एवौचित्यात् । आरोपे सति निमित्तानुसरणमिति न्यायात् । मूलं तु इत्थमवतारणीयम्. ॥
ननु स्वसमवेताभिव्यञ्जकगतसमवायस्य सम्बन्धता न केनाः नाप्यादृतेत्यत आह-* कल्पितानामिति* ॥ कल्पितानां वायुसंयो गगतधर्मविशेषणामुपाधित्वमुदात्तत्वादिप्रकारकप्रतीतिजनकत्वमि त्यर्थः । अधिकं त्वग्रे वक्ष्यते । दृष्टान्तस्फुटीकरणाय मीमांसकमतमाह -* उदात्तत्वादीति ॥ आदिनाऽनुदात्तत्वपरिग्रहः । उ. दात्तत्वानुदात्तत्वयोः परस्परविरोधाद्वर्णभेदेन तत्सत्ता वाच्या । ब्रः

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498