Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 463
________________ ४५. दर्पणसहिते वैयाकरणभूषणसारे पवित्रं सर्वविद्यानामधिविध प्रकाशते ।। इदमाचं पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः । अत्रातीतविपर्यासः केवलामनुपश्यति ॥ इति । न चालीकया प्रकृतिप्रत्ययकल्पनया कथं वास्तवस्फोटघोषः । तस्या अलीकत्वासिद्धर्वक्ष्यमाणत्वात् । एवं रेखागवयन्याय आदिपदेन गृह्यते ॥ ६९ ॥ पोगादिति भावः । यतः सर्वविद्यानां मध्ये पवित्रमतोधिविधं वि. धासु प्ररेण दीप्यत इत्यर्थः। तथाचोक्तम्-"तेषां च सामर्थ्य जु. षां पवित्रं महर्षयो व्याकरणं गिराहुः" इति ॥ *इदमिति* ॥ सि. द्धिसोपानपर्वणां मध्ये इदं प्रथमं पदस्थित्याधिकरणमित्यर्थः। अत्र स्फोटे अतीतविपर्यासो भ्रान्तिशून्य एतत्तत्त्वज्ञानवानिति यावत् । कैवल्यं पराख्यम् । * अनुपश्यतीति योगजधर्मेण प्रत्यक्षीकरातीत्य. र्थः। तथाच योगित्वसिद्धौ न किंचिदवशिष्यते तत्त्वज्ञानमित्यर्थः तदुक्तं भागवते द्वादशे नादनिरूपणान्तरं यदुपासनया ब्रह्म योगिनो मलमात्मनः । . द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुर्नभवम् । इति भावः ॥ *अलीकत्वासिद्धेरिति* ॥ पञ्चकोशादिवत् प्रकृतिप्रत्ययविभागस्यापि मायिकत्वेन नात्यन्तासच्छशशृङ्गा. दिवदलीकत्वमिति वक्ष्यमाणप्रायत्वादित्यर्थः । अवास्तवत्वेऽपि मणिप्रभाप्रतिबिम्बस्य मणिप्राप्तावितस्याऽपि परमात्मदर्शने उपयोगसम्भवादिति भावः ॥ *आदिपदेनेति* ॥ पञ्चको. शादिवदित्यत्रोपात्तनादिशब्देनेत्यर्थः । न्यायस्तु समासवादे प्र. पश्चितः॥ ६९॥ उत्पत्तिविनाशप्रतीतिसाक्षिकं वर्णानामनित्यत्वं ताशवर्णात्मकस्फोटाभ्युपगमे तस्याप्यनित्यत्वप्रसङ्ग इत्याशङ्कासमाधानपरतया

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498