Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 465
________________ ४५२ . दर्पणसहिते वैयाकरणभूषणसारे त्वाच्च । तच्च, स एवायमितिप्रत्यभिज्ञानात् । न च गत्वावच्छिन्नप्रतियोगिताकभेदाभावस्तद्विषयः । व्यत्यंशाभेदस्यापि भासमानस्य विना बाधकं त्यागायोगात् । नचोत्पत्तिप्रतीतिर्वाधिका । प्रागसस्त्रे सति सत्त्वरूपाया उ. त्पत्तेर्वर्णेष्वनुभवविरुद्धत्वात् । अत एव वर्णमुच्चारयतीति प्रसयो, नतूत्पादयतीति व्यवहारश्च । उच्चरितत्वञ्च तालोष्ठसं. योगादिजन्याभिव्यक्तिविशिष्टत्वम् । किञ्च । व्यञ्जकध्वनिनिष्ठोत्पत्त्यादेः परम्परया वर्णनिष्ठ र्णभेदश्च तदनित्यत्वेऽनेकत्वे वा स्यात्, तदेव तु न सम्भवतीत्याह-*तस्यैकत्वादित्यादि । नित्यत्वे प्रमाणमाह-*तच्चेति* ॥ नित्यत्वमेकत्वं चेत्यर्थः। त्यागायोगादिति* ॥ अविषयत्वायोगा. दित्यर्थः ॥ *बाधिकेति* ॥ व्यक्त्यभेदे प्रतीतिर्बाधिकेत्यर्थः । प्राग. सत्त्वे सतीत्यादि, स्वाऽधिकरणसमयध्वंसवत्वसम्बन्धावच्छिन्नप्र. तियोगिताकाभाववत्त्वावच्छिन्नकालकविशेषणतासम्बन्धरूपाया इ. त्यर्थः । द्वितीयादिक्षणसम्बन्धस्य निरुक्तसम्बन्धेन स्ववत्वान्न तत्रा. तिप्रसङ्गः॥ *अत एवेति* ॥ अनुभवविरुद्धत्वादेवेत्यर्थः ॥ प्रत्ययो ज्ञानम् ॥ व्यवहारः-शब्दप्रयोगः । ननुच्चारणमपि तदुत्पत्त्यनुकूलो व्यापार एव । तथाच सैव प्र. तीतिर्वर्णानित्यत्वसाधिकत्यत आह-*उच्चरितत्वञ्चेति* ॥ अभि. व्यक्तिविशिष्टत्वं तद्विषयत्वम् । तथाच ताशप्रत्ययाभिव्यक्तिनिष्ठं व. र्णनिरूपितविषयित्वमेव विषयीक्रियते । ननुत्पत्तिनिष्ठं वर्णवृत्तित्व. मिति न साऽनित्यत्वसाधिकेति भावः । ननु वर्णाऽभिव्यक्तिजनकः कण्ठताल्वाधभिघात एवोच्चारणपदार्थो, न वर्णोत्पत्तिजनक इत्यत्र किं प्रमाणम् । किञ्च वर्णाऽनित्यत्ववादिनामुत्पद्यते वर्णों वर्णमुत्पादयतीत्यादिप्रयोगा इष्टा एवेति नाऽनुभवविराधोऽपीत्यत आह-* किञ्चति ॥ उत्पत्त्यादेरित्यादिरित्यादिना विनष्टो वर्ण इति प्रतीतिप्रतिपादितविनाशः परिगृह्यते । परम्परया स्वाश्रयध्वनिव्यङ्गयत्व.

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498