________________
४५२ . दर्पणसहिते वैयाकरणभूषणसारे त्वाच्च । तच्च, स एवायमितिप्रत्यभिज्ञानात् । न च गत्वावच्छिन्नप्रतियोगिताकभेदाभावस्तद्विषयः । व्यत्यंशाभेदस्यापि भासमानस्य विना बाधकं त्यागायोगात् ।
नचोत्पत्तिप्रतीतिर्वाधिका । प्रागसस्त्रे सति सत्त्वरूपाया उ. त्पत्तेर्वर्णेष्वनुभवविरुद्धत्वात् । अत एव वर्णमुच्चारयतीति प्रसयो, नतूत्पादयतीति व्यवहारश्च । उच्चरितत्वञ्च तालोष्ठसं. योगादिजन्याभिव्यक्तिविशिष्टत्वम् ।
किञ्च । व्यञ्जकध्वनिनिष्ठोत्पत्त्यादेः परम्परया वर्णनिष्ठ
र्णभेदश्च तदनित्यत्वेऽनेकत्वे वा स्यात्, तदेव तु न सम्भवतीत्याह-*तस्यैकत्वादित्यादि । नित्यत्वे प्रमाणमाह-*तच्चेति* ॥ नित्यत्वमेकत्वं चेत्यर्थः। त्यागायोगादिति* ॥ अविषयत्वायोगा. दित्यर्थः ॥ *बाधिकेति* ॥ व्यक्त्यभेदे प्रतीतिर्बाधिकेत्यर्थः । प्राग. सत्त्वे सतीत्यादि, स्वाऽधिकरणसमयध्वंसवत्वसम्बन्धावच्छिन्नप्र. तियोगिताकाभाववत्त्वावच्छिन्नकालकविशेषणतासम्बन्धरूपाया इ. त्यर्थः । द्वितीयादिक्षणसम्बन्धस्य निरुक्तसम्बन्धेन स्ववत्वान्न तत्रा. तिप्रसङ्गः॥ *अत एवेति* ॥ अनुभवविरुद्धत्वादेवेत्यर्थः ॥ प्रत्ययो ज्ञानम् ॥ व्यवहारः-शब्दप्रयोगः ।
ननुच्चारणमपि तदुत्पत्त्यनुकूलो व्यापार एव । तथाच सैव प्र. तीतिर्वर्णानित्यत्वसाधिकत्यत आह-*उच्चरितत्वञ्चेति* ॥ अभि. व्यक्तिविशिष्टत्वं तद्विषयत्वम् । तथाच ताशप्रत्ययाभिव्यक्तिनिष्ठं व. र्णनिरूपितविषयित्वमेव विषयीक्रियते । ननुत्पत्तिनिष्ठं वर्णवृत्तित्व. मिति न साऽनित्यत्वसाधिकेति भावः । ननु वर्णाऽभिव्यक्तिजनकः कण्ठताल्वाधभिघात एवोच्चारणपदार्थो, न वर्णोत्पत्तिजनक इत्यत्र किं प्रमाणम् । किञ्च वर्णाऽनित्यत्ववादिनामुत्पद्यते वर्णों वर्णमुत्पादयतीत्यादिप्रयोगा इष्टा एवेति नाऽनुभवविराधोऽपीत्यत आह-* किञ्चति ॥ उत्पत्त्यादेरित्यादिरित्यादिना विनष्टो वर्ण इति प्रतीतिप्रतिपादितविनाशः परिगृह्यते । परम्परया स्वाश्रयध्वनिव्यङ्गयत्व.