________________
४५. दर्पणसहिते वैयाकरणभूषणसारे
पवित्रं सर्वविद्यानामधिविध प्रकाशते ।। इदमाचं पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः ।
अत्रातीतविपर्यासः केवलामनुपश्यति ॥ इति । न चालीकया प्रकृतिप्रत्ययकल्पनया कथं वास्तवस्फोटघोषः । तस्या अलीकत्वासिद्धर्वक्ष्यमाणत्वात् । एवं रेखागवयन्याय आदिपदेन गृह्यते ॥ ६९ ॥
पोगादिति भावः । यतः सर्वविद्यानां मध्ये पवित्रमतोधिविधं वि. धासु प्ररेण दीप्यत इत्यर्थः। तथाचोक्तम्-"तेषां च सामर्थ्य जु. षां पवित्रं महर्षयो व्याकरणं गिराहुः" इति ॥ *इदमिति* ॥ सि. द्धिसोपानपर्वणां मध्ये इदं प्रथमं पदस्थित्याधिकरणमित्यर्थः। अत्र स्फोटे अतीतविपर्यासो भ्रान्तिशून्य एतत्तत्त्वज्ञानवानिति यावत् । कैवल्यं पराख्यम् । * अनुपश्यतीति योगजधर्मेण प्रत्यक्षीकरातीत्य. र्थः। तथाच योगित्वसिद्धौ न किंचिदवशिष्यते तत्त्वज्ञानमित्यर्थः तदुक्तं भागवते द्वादशे नादनिरूपणान्तरं
यदुपासनया ब्रह्म योगिनो मलमात्मनः । . द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुर्नभवम् ।
इति भावः ॥ *अलीकत्वासिद्धेरिति* ॥ पञ्चकोशादिवत् प्रकृतिप्रत्ययविभागस्यापि मायिकत्वेन नात्यन्तासच्छशशृङ्गा. दिवदलीकत्वमिति वक्ष्यमाणप्रायत्वादित्यर्थः । अवास्तवत्वेऽपि मणिप्रभाप्रतिबिम्बस्य मणिप्राप्तावितस्याऽपि परमात्मदर्शने उपयोगसम्भवादिति भावः ॥ *आदिपदेनेति* ॥ पञ्चको. शादिवदित्यत्रोपात्तनादिशब्देनेत्यर्थः । न्यायस्तु समासवादे प्र. पश्चितः॥ ६९॥
उत्पत्तिविनाशप्रतीतिसाक्षिकं वर्णानामनित्यत्वं ताशवर्णात्मकस्फोटाभ्युपगमे तस्याप्यनित्यत्वप्रसङ्ग इत्याशङ्कासमाधानपरतया