________________
स्फोटनिरूपणम् ।
षकत्वात् । तथाच व्याकरणाभ्यासजन्यज्ञाने वैजात्यं कल्प्यते । मन्त्रजन्यमिवार्थस्मरणे । वेदान्तजन्यमिव ब्रह्मज्ञाने । तस्य च ज्ञानस्य यज्ञादीनामन्तकरणशुद्धाविव शरीरादिशुद्धावुपयोगः साक्षात्परम्परया वा स्वर्गमोक्षादिहेतुत्वञ्च । तदुक्तं वाक्य. पदीये
तद्वारमपवर्गस्य वाङ्गलानां चिकित्सितम् । ..
सदृष्टान्तां युक्तिमाह-*तथाचेति ॥ व्याकरणाध्ययनस्य स्फोट. ज्ञानत्वे न कार्यतावच्छेदकं, किन्तु तादृशशानगतवैजात्यम् । तदव. च्छिन्नं च नोपायान्तरादिति न व्यभिचारः। वैजात्यस्य प्रागनुपस्थि. तावपि कारणताग्रहो विधिवादोक्कदिशा वसेय इति भावः ॥ *मन्त्र. जन्यमिवति* ॥ मन्त्रजन्यतावच्छेदकामिवेत्यर्थः । एवमग्रेऽपि । ।
ननु पुरुषार्थसाधकस्य तस्य सम्पादनवैयर्थ्यमत आह-तस्य चेति* ॥ स्फोटज्ञानस्य चेत्यर्थः ॥ * यज्ञादीनामिति* ॥ कामनापरिस्यागन विधीयमानानां तेषामित्यर्थः । यज्ञादीत्यादिना "तमेतं वेदा. नुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति श्रुत्युक्तदानादिपरिग्रहः । शरीरादीत्यादिना वागिन्द्रियपरिप्रहः।
ननु शरीरादिशुद्धेरप्यपुरुषार्थतया तदुद्देशेनापि प्रवृत्तिदुर्घटेत्यत आह-*साक्षादिति* ॥ स्वर्गादात्यादिनाऽपवर्गपरिग्रहः । साक्षास्वर्गहेतुत्वं, परम्परयाऽपर्वगहेतुत्वं चेत्यर्थः । स्वर्गहेतुत्वे "चैकः शब्दः" इति भाष्यपठितश्रुतिः परम्परया मोक्षहेतुत्वे च, "द्वे ब्रह्म णी वेदितव्ये" इति स्मृतिः प्रमाणम् । परम्पराघटकं चात्मतत्त्वज्ञा. नम् । "तमेव विदित्वा" इति श्रुत्या तदतिरिक्तस्य साक्षान्मोक्षहेतु. त्वव्यवच्छेदबोधनादिति बोध्यम् । उक्तार्थे हरिसम्मतिमाह-*तदुक्तमिति । तत्-नादात्मकस्फोटप्रतिपादकं शास्त्रम् । *अपवर्ग: स्येति* ॥ मोक्षस्येत्यर्थः । *द्वारमिति* ॥ तदुपयोगीत्यर्थः। हेतुगर्भविशेषणमाह-वाङमलानामिति * । *चिकित्सितामति । अपनयनाऽ. र्थकसन्नन्तात् कितः क्तप्रत्यये वाङ्मलकमकापनयनसाधनं यतस्ततो मोक्षद्वारामित्यर्थः । मनः शुद्धौ यज्ञादीनामिव वाक्शुद्धावेव तस्योप.