________________
दर्पणसहिते वैयाकरणभूषणसारे
भृगुवयां "मृगुर्वै वारुणिर्वरुणं ब्रह्म पृष्टवान् । स उवाच अनम्” इति । तस्योत्पत्यादिकं बुध्वा पृष्ठे प्राणमनोविज्ञानाSSनन्दात्मकपञ्चकोशोत्तरं "ब्रह्मपुच्छं प्रतिष्ठा" इति ज्ञेयं ब्रह्म प्रतिपादितम् । तत्र कोशपञ्चकव्युत्पादनं शुद्धब्रह्मबोधनाय ।
यथा वा आनन्दवल्लीस्थपञ्चकोशव्युत्पादनं वास्तवशुद्धब्रह्मबोधनाय । एवं प्रकृतिप्रत्ययादिव्युत्पादनं वास्तवस्फोटव्युस्पादनायैवेति ।
ननु प्रत्यक्षस्य स्फोटस्य श्रवणादितोऽपि बोधसम्भवान्न शास्त्रं तदुपाय इत्यत आह- उपाया इति । उपास्योपायान्तरादः
१४४८
तस्याऽपि तथात्वं बुद्ध्वा पृष्टो, "मनो ब्रह्म" इति । तस्याऽप्यशित. मनं त्रेधा भवति - "यस्थूलं तत्पुरीषं, यन्मध्यमं तन्मांस यदणीयस्तन्मन” इति श्रवणादनित्यत्वमवधार्य पुनः पृष्टो, "विज्ञानं ब्रह्म" इति । तस्याऽपि वृत्त्युपहितत्वं ज्ञात्वा पुनः पृष्टेनोपदिष्टम् - "आनन्दो ब्रह्मेति व्यजानात्" । ततो वस्तुतत्त्वं प्राप्य स्थित इति प्रतिपा दितम् ।
ननु न शेयवल्ली पञ्चकोशप्रतिपादिका । पञ्चमस्यानुपपाद्यत्वादको शत्वाश्च तस्यैव तत्र ब्रह्मबोधनत्वात्, किन्तु इत्याशंक्यानन्दवलिस्थपञ्चकोशोदाहरणमाह-यथावेति ॥ तत्रत्या हि पञ्चकोशा उ पाय एव उपदिष्टपञ्चमानन्द कोषस्यापि वैशयिकतया नित्यत्वेन ब्रह्म. स्वात् "ब्रह्म पुच्छं प्रतिष्ठा" इत्यतः श्रूयमाणब्रह्मपद स्यैव मुख्यब्रह्म परत्वम् । अत एवाऽऽधारार्थकः पुच्छशब्दोऽप्युपपद्यते । तस्य लागूलरूपमुख्यार्थस्य बाधात् । एवञ्चानन्दवल्ल्यां यथा पञ्चकोशाः स. र्वाधारब्रह्मबोधनायोपायतयोपात्ता, न तु तेषां वास्तवब्रह्मत्वं तथेहाऽप्यवास्तव प्रकृतिप्रत्ययवाचकत्वव्युत्पादनं वास्तवस्फोटनिष्ठवाच कत्वबोधनायेत्याखण्डलार्थः ॥ * श्रवणादित इति ॥ आदिना मननादिपरिग्रहः ॥ *न शास्त्रमिति ॥ एतच्छास्त्रं विनापि श्रवणादिना तद्बोधेन व्यभिचारादिति भावः ॥ उपायस्योपायान्तरादूषकत्वे