________________
स्फोटनिरूपणम् ।
नन्वेवं शास्त्राप्रामाण्यप्रसङ्गः । पदस्याखण्डत्वात् । शास्त्रस्य च प्रकृतिप्रयाभ्यां पदव्युत्पादनमात्रार्थत्वादित्याशङ्कां समाधत्ते
४४७
पञ्चकोशादिवत्तस्मात् कल्पनैषा समाश्रिता ॥ ६९ ॥ - उपेयप्रतिपत्यर्था उपाया अव्यवस्थिताः ॥
उपेयप्रतिपत्यर्था इसन्तेनान्वयः । अयं भावः (१) । यथा
क्रमेण चित्तस्थास्तेनैव व्यञ्जकरूपितता तस्येत्यभ्युपगमाच्च, न, सरो सर इत्यनयोरविशेषः । व्यञ्जकरूपरूापितस्यैव तस्याऽर्थे शक्तिग्रहाच, न घटादिपर्य्यायाभिव्यक्तस्फोटे गृहीतशक्तिकस्याप्रसिद्धपदश्रवणेऽर्थबोधापत्तिरत एवेदमेकं पदमेकं वाक्यमिति व्यवहारः स्वरसतः सङ्गच्छत इत्याहुः ॥ ६८ ॥
* एवमिति* ॥ अखण्डस्फोटस्यैव वाचकत्वे इत्यर्थः । अप्रामा• ण्यप्रसङ्गमेवोपपादयति-पदस्येति ॥ वाक्यस्याऽप्युपलक्षणमिदम् ॥ *अखण्डत्वादिति ॥ प्रकृतिप्रत्यय विभागशून्यत्वादित्यर्थः । तथाभूतस्यैव वाचकता भवद्भिरुपपादितत्वादिति भावः ॥ शस्त्रस्य=व्याकरणात्मकस्य ॥ *प्रकृतिप्रत्ययाभ्यामिति ॥ ताभ्यां यद् व्युत्पादनं = शक्तिबोधनं, तन्मात्रप्रयोजनत्वादित्यर्थः ॥ तथाच प्रकृतिप्रत्ययविभागेन पदार्थवाचकत्वबोधकस्यास्य शास्त्रस्य पदस्याऽखण्डत्वेऽप्रमण्यापत्तिरिति भावः ॥ *उपेयप्रतिपत्त्यर्थेति ॥ वचनविपरिणामेन उत्तरत्राऽप्यन्वति । उपयस्य बोधनीयस्य प्रतिप
ये ऐषा कल्पना श्रिता स्वकृता मुनिनेति शेषः ॥ तत्र दृष्टान्तमाह - *पञ्चकोशादिवदिति । दृष्टान्तमेव स्फुटयति-अयम्भाव इति* ॥ तत्र हि, "भृगुर्वै वारुणिर्वरुणं ब्रह्म पृष्टवान् । स उवाचानं ब्रह्म" इति तस्योत्पत्यादि बुद्ध्वा पुनस्तेन पृष्टः " प्राणो ब्रह्म" इति
(१) "अयंभावः । यथा भृगुवल्यामन्नप्राणमनोविज्ञानानन्दात्मककोशपञ्चकव्युत्पादनं शुद्धब्रह्मबोधाय याथावाऽऽनन्दवल्याम्" अयं पाठः दृश्यते क्वचित् ।