________________
दर्पणसहिते वैयाकरणभूषणसारे एव स्फोटः । अन्यथा कपालातिरिक्तघटायसिद्धिप्रसङ्गश्चेति प्र. तिपादितम् ॥ ६८॥
मनः कायाऽग्निमाहन्ति स प्रेरयति मारुतम् ॥
सोदीर्णो मूभिहतो वक्त्रमापद्य मारुतः। वर्णान् जनयते
इत्यनेन हृदयावच्छिन्नमध्यमायां यो नादांश आन्तरप्र. णवरूपः स एव वाचकः । “ओंकार एव सर्वा वाक् सैषा स्पर्शीष्मभिर्व्यज्यमाना नानारूपा भवति" इति श्रुतेः । सर्वप्राणिहहे. शस्थत्वाच ब्रह्मपदव्यवहार्योऽपीत्यन्यत्र विस्तरः॥
*इति प्रतीतेरिति* || अन्यथा वर्णपरम्परारूपमालायास्तत्समू. हरूपपदानतिरिक्ततयाऽऽधाराधेयभावावगाहिप्रतीत्यनुपत्तिरिति भा. वः ॥ *अन्यथति* ॥ प्रतीतेः पदार्थासाधकत्व इत्यर्थः । *कपाले घट इति* ॥ प्रतीत्याभेदावगाहिन्या तसिद्धिप्रतीतेस्तदसाधकत्वे तु घटाद्यसिद्धिः स्पष्टैव । कपालतत्संयोगानादायैव ताशप्रतीत्यु. पपत्तेरिति भावः ॥ कौस्तुभे विति तुशब्देनाऽरुचिः सूचिता। तद्बीजं तु वर्णातिरिक्तस्फोटानङ्गीकारेऽपि नोक्तप्रतीत्यनुपपत्तिः । आनुपूर्व्यवच्छिन्नवर्णानां मालापदार्थत्वेन तत्रानुपूर्वीरुपपदस्याधाराधे. यमात्रसम्भवात् । घटकपालादीनां विजांतीयकरणजन्यत्वेन तद्भ दस्यापलपितुमशक्यत्वेनोक्तातिप्रसङ्गाभावाच्चेति। ___अन्ये तु-न वर्णानां स्फोटात्मकत्वम् । किन्तु स्फोटस्य वर्णाभि. व्यङ्गयत्वमेव । न च प्रत्येकव्य अकत्वपक्षोक्तदोषः । प्रयोगान्तर्गतस. कलवर्णानां तव्यञ्जकत्वेऽपि चरमवर्णाभिव्यक्तस्यैव तस्य वाचक. त्वोपगमादत एव नाद्यवर्णजाऽभिव्यक्त्युत्तरमर्थबोधः। तस्यैकत्वे. ऽपि तत्र व्यञ्जकरूपप्रतिबिम्बजन्यतद्रूपनिरूपितस्यैव प्रतीत्या नाना. त्वेन प्रतीतिरौपाधिकी। एकस्यैव मुखस्य कृपाणदर्पणाद्यभिव्यञ्जकवशाऱ्यावर्तलत्वादिप्रतीतिवत् । अत एवाऽभ्युपगमार्थ न तत्र जातिकल्पनापि । वर्णभिन्नव्यञ्जकाऽभावाच्च न कदाचिदपि वर्णराहित्येन तत्प्रतीतिस्तत्प्रतिबिम्बसमर्पकाश्च संस्कारा एव । ते च येन