________________
४४५
स्फोटनिरूपणम् । . शब्दकौस्तुभे तु वर्णमालायां पदमिति प्रतीतेर्वर्णातिरिक्त
नित्यवगैरेव स्फोटकायर्योत्पत्तौ स्फोटस्यैवाऽसिद्धिः । तथाहि । आनुपूर्ध्या भवद्भिरेवोपपादितत्वात्तद्विशिष्टानां तेषां पदत्वेन तत्प्र. त्यक्षस्य सौलभ्येन शक्तिग्रहस्य सूपपादत्वात्तदेवेदं पदं वाक्यमिति प्रत्यभिज्ञोपपत्तेश्चेत्यत आह *दिगिति* । तदर्थस्तु यदि स्वतन्त्रा . नित्या वर्णाः स्युस्तदा स्यादेव तैः स्फोटाऽन्यथासिद्धिः। किन्तु कत्वादिना प्रतीयमानः स्फोट एव ककारादिवर्ण इत्यभ्युपगमेनोक्तान्यथासिद्ध्यऽसम्भवादत एव नानावर्णकल्पनाप्रयुक्तगौरवशकापि नेति ।
ननु कोऽसौ स्फोटो यदनतिरिक्ता वर्णा इति चेदत्राहुः । ईश्वर. सिसृक्षा मायाबिम्बपरपायत्रिगुणात्मकाव्यक्तप्रभवः शब्दब्रह्मापरनामा चेतनाधिष्ठितोऽनभिव्यक्तवर्णविशेषो रवः परादिशब्दैर्व्यवह्रियमाणो नादः स्फोट इत्युच्यते । स च सर्वगतोऽपि पुरुषस्य शा. तार्थविवक्षाधीनप्रयत्नाधिष्ठितमूलाधारस्थपवनेनाऽभिव्यक्तः परे। ति व्यवहियते । नाभिपर्यन्तमागच्छता तेनाऽभिव्यक्तः पश्यन्ती. ति । पुनर्हदयमागच्छता तेनैवाऽभिव्यक्तस्तत्तदर्थोल्लेखिज्ञानविषयः परश्रोत्राग्राह्यत्वात् सूक्ष्मो मध्यमा धागिति । वक्त्रा तु कर्णपिधाने सूक्ष्मतरवाय्वभिघातेनोपांशुशब्दप्रयोगे च श्रूयते । स एव चाऽऽस्य. पर्यन्तमागच्छता तेन वायुना कण्ठदेशे गत्वा मूर्धानमाहत्य परा. वृत्त्य तत्तत्स्थानेष्वभिव्यक्तः परश्रोत्रेणाऽपि ग्रहीतुं शक्यो वैखरीति व्यहियते । उक्ताऽर्थे प्रमाणं च
"चत्वारि वाक् परिमिता पदानि । तानि विदुर्ब्राह्मणा ये म. नीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति । तुरीयं घाचो मनुष्या वद. न्ति" इति श्रुतिः।।
बिन्दोस्तस्माद्भिद्यमानाद्रवाऽव्यक्तात्मकोऽभवेत् ।
स एव श्रुतिसम्पन्नः शब्दब्रह्मेति गीयते ॥ .. . इति पुराणवाक्यं च । भागवतेऽप्येकादशस्कन्धादौ स्फुटोs. यमर्थः । शिक्षायामपि
___ आत्मा बुद्ध्वा समेत्यान्मनो युके विवक्षया ।