Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 456
________________ स्फोटनिरूपणम्। स्वज्ञानाधिकरणक्षणात्पत्तिकज्ञानविषयत्वं वाच्यम् । अत एव घज्ञानानन्तरटज्ञानविषयत्वरूपानुपूर्वीयादिनैयायिकद्धानां व्यव. हारः। एवञ्च न कश्चिद्दोषः । एतेन पर्यायस्थलेष्वके एव स्फोटो नाना वा ? नाद्यः । घटपदे एवं गृहीतशक्तिकस्य कलशादेबोधप्रसङ्गात् । नच तत्प.. व्याभिव्यक्ते शक्तिग्रहस्तत्पर्यायश्रवणेऽर्थधीहेतुरिति वाच्यम् । एवं सति प्रतिपर्यायं शक्तिग्रहावश्यम्भावेन तत्तत्पर्यायगतशक्तिग्रहहेतुताया उचितत्वात् । तथा सति शक्तिग्रहत्वेनैव हेतुत्वे राभिव्यक्तावबाधेन तदादाय घटादिपदप्रत्ययोपपत्तिरिति भावः । *अत एवंति* । अभिव्यक्तिनिरूपिताऽव्यवहितोत्तरत्वस्यानुपूर्वीव्यवहारनियामकत्वादेवत्यर्थः। नवीनैस्तथानभ्युपगदामाह-*वृद्धति* । * एतेनेति * । आनुपूर्व्यवच्छिन्नवर्णात्मकस्फोटस्य वाचकत्वव्यवस्थापनेनेत्यर्थः । अपास्तमित्यनेनाऽन्वयि । *स्फोट इति* । वाचकत्वेनाऽभिमता. ऽखण्डपदार्थ इत्यर्थः । *नाध इति । नैक इत्यर्थः । तत्पक्षे दुषणमाह-*घटपद इति । घट इत्यानुपूर्व्यवच्छिन्नस्फोटे गृहीतशक्तिकस्येत्यर्थः। कलशपदादित्यस्यागृहीततर्वाच्छनास्फो. टशक्तिकादित्यादिः । *बोधप्रसङ्गादिति । घटबोधक्लप्तकारणता. ककलश इत्यानुपूर्व्यवच्छिन्नस्फोटस्य तदानीं सत्वान्नित्यकरूपत्वात् तस्य वर्णसमुदायरूपपदस्य वाचकत्वे तु नोक्तदोष इति भावः ॥ अर्थधीहेतुरिति* उक्तस्थले वाऽस्य स्फोटस्य कलशरूपपर्याय. ताभिव्यक्त्यवच्छिन्नशक्तिग्रहविषयत्वाभावान्न अर्थबोधप्रसङ्ग इति । *एवमिति* ॥ तत्पर्यायजन्यबोधे तत्पर्यायाभिव्यक्त्यवच्छिन्नशक्तिग्रहस्य हेतुत्वाभ्युपगम इत्यर्थः ॥ *शक्तिग्रहावश्यम्भावनेति ॥ नागृहीतविशेषणन्यायेन तत्पर्यायशक्तिग्रहस्यावश्यमभ्युपेयत्वादि. ति भावः ॥ *उचितत्वादिति ॥ औचित्यमेवाह-*तथा सतीति* ॥ *शक्तिग्रहत्वेनेति* ॥ तत्पर्यायगतशक्तिग्रहत्वेनेत्यर्थः॥ *लाघवा.

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498