Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 455
________________ ४४२ दर्पणसहित वैयाकरणभूषणसारे परन्तु केचिद् गत्वेन, केचिदौत्वेन, केचिद्विसर्गत्वेनेत्यनेकैः प्र. कारैः । अत एव वर्णानां तदतिरेकास्वीकारोऽप्युपपद्यते । एवञ्चाव्यवाहितोत्तरसम्बन्धेन घवत्त्वं टकारे गृह्यते । एतादृशपदज्ञानकारणताया अविवादात् । परं स्वव्यवहितोत्तरत्वं लघटिताव्यवहितोत्तरत्वघटितत्वेनाऽननुगमकत्वाच्छक्ततावच्छेदक स्वासम्भवात् । अखण्डस्फोटाऽङ्गीकारे तु तत्तद्वर्णोपाध्यवच्छिन्ने त. स्मिन् पौर्वापादिव्यवहारविषयत्वस्य सुपपादत्वानोक्ताऽनुपपत्तिः। तस्य चाऽनुपूर्व्यन्तर्गतसमस्तवर्णा एव यद्यप्यभिव्यञ्जकास्तथापि चरमवर्णाभिव्यक्त एव स बोधहेतुरिति नोक्तविकल्पस्याऽप्यवसर इत्याहुः। ___ ननु वायुसंयोगानां प्रत्येकमभिव्यञ्जकत्वाभ्युपगमेऽपि गौरित्यत्र घटेन घटत्वेन च स्फोटोऽभिव्यज्यतेत्यत आह-*परन्त्विति । तथाच विलक्षणवायुसंयोगस्य गत्वप्रकारकस्फोटाभिव्यञ्जकत्वाभ्युपगमानोक्तदोष इति भावः । *अत एवेति । विलक्षणवायुसंयोगस्य तत्तद्रूपेण स्फोटाभिव्यञ्जकत्वाऽभ्युपगमादेवेत्यर्थः । *तदतिरेकास्वीकार इति* | तत्तत्संयोगादेव कत्वादिप्रकारकककारप्रतीत्यु. पपत्तौ स्फोटातिरिक्ततत्कल्पने मानाभावादिति भावः।। ननु सरो रस इत्यादावतिप्रसङ्गस्तदवस्थ एव सत्त्वादिरूपेणाभि. व्यञ्जकवायुसंयोगानामुभयत्र तौल्यादत आह-*एवञ्चति*। *घव त्वमिति । तथा चौपाधिकभेदमादाय तस्मिन्नेव टकारत्मके घटत्वप्रकारकप्रतीतिविषयाव्यवहितत्वग्रहविषयो यथा घटपदव्यवहारवि. षयता तथा रात्मक स्फोटे सत्त्वप्रकारकप्रतीतिविषयाव्यवहितत्वग्रहे सरपदव्यवहारविषयतेति न सरात्मकस्फोटस्य रसरूपतेति भावः। ननु तव मते गकारादिवर्णस्य नित्यस्फोटरूपतया नित्यत्वेन तद्ध्वंसाऽधिकरणक्षणाऽनुत्पत्तिकत्वविशिष्टतदधिकरणक्षणोत्पत्ति. कत्वरूपाऽव्यवहितोत्तरत्वालम्भवात् कथमुक्तप्रकारसम्भवोऽत आह-*परं त्विति* । तथाच वर्णानां नित्यत्वेऽपि तदभिव्यक्तरनित्यत्वस्य सांख्यानामपि सम्मतत्वेन तदव्यवहितोत्तरत्वस्य वर्णान्त

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498