Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
दर्पणसहिते वैयाकरणभूषणसारे नादिसाधारण इत्यतिप्रसङ्ग इति स्फोट एवाखण्डो नादाभि. व्यङ्गयो वाचक इति कैपटः । तत्तुच्छम् । पदज्ञानसम्भवस्पोपपा.
सम्बन्धवति मानं च दृश्यते चक्षुरादिना ।
इति वृद्धोक्तेः । प्रत्यक्षे विषयस्य कार्यसहभावेन हेतुतया तृती. यक्षणे तद्वर्णरूपविषयस्याभावात् । न च ककाराद्युत्पत्तिक्षणोत्पन्न कत्वादिस्मृत्यैव द्वितीयक्षणे एव स विकल्पसम्भव इति वाच्यम । एवमपि प्राथमिकविशिष्टबुद्धेर्दुरुपपादत्वादितिचेत् । ___ अत्र वदन्ति । संसारस्यानादितया बालस्य स्तनपानप्रवृत्तिहत्वि. ष्टसाधनत्वस्मृतेरिव प्राथमिककत्वादिविशिष्टबुद्धिजनकस्मृतेः स.
भवान्न तदनुपपत्तिः । ककाराद्युत्पत्त्यनन्तरं ककारो गकार इतिवि. शिष्टबुद्धेरेव च तादृशकल्पने मानमिति । ___अन्ये तु प्रतियोगितासम्बन्धेन योग्यविभुविशेषगुणनाशं प्रति स्वसामानाधिकरण्यस्वाव्यवहितपूर्ववत्तित्वोभयसम्बन्धन सामान्य. तस्ताहशविशेषगुणस्य कारणता स्यात्तदा ककारादिप्रत्यक्षाऽनुपपत्तिः प्रसज्ज्यताऽपि । सैव न । अन्तिमशब्दनाशे सुषुप्तिप्राक्कालात्पन्नशा. नादिनाशे च व्यभिचारात् । किन्तु विजातीयगुणनाशे वैजात्यं चर. मशब्दादिव्यावृत्तमिव प्राथमिकविशिष्टबुद्धिविषयवर्णव्यावृत्तमपि । न च तादृशवैजात्यं मानाऽभावः । नाश्यताऽवच्छेदककोटिप्रविष्टत. यैव तत्सिद्धेः । तथाचान्तिमशब्दनाशेन द्वितीयक्षणस्यैव तादृशवर्णनाशेऽपि न तृतीयक्षणस्य तद्व्यक्तित्वेन हेतुत्वकल्पनात्र तृ. तीयक्षणस्थायिनस्तस्य प्रत्यक्षानुपपत्तिरुक्तहेतुहेतुमद्भावस्वीकारेऽ. पीत्याहुः।
*अतिप्रसङ्ग इति* । सरसशब्दघटकसकाराकाररेफविसर्गानु: भवजन्यसंस्कारे रसबोधापत्तिरित्यर्थः। *नादाभिव्यङ्गय इति । ध्वन्यन्तर्गतवर्णाभिव्यङ्गय इत्यर्थः। अखण्डवर्णाघटितः । उपपादितत्वादित्यस्य सखण्डस्फोटनिरूपणावसर इति शेषः । तादृशप्रत्य. क्षस्यान्तिमवर्णाशे लौकिकस्थाऽतीतवर्णाशेऽलौकिकस्य सरोरस इत्याद्यनतिप्रसतस्योपपादितत्वादित्यर्थः। अतिरिक्तस्य बाचकत्वे

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498