Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 452
________________ स्फोटनिरूपणम् । एतेन गौरित्यादौ गकारौकारविसर्गादिव्यतिरेकेण स्फोटाननुभवाच्छ्रूयमाणत्रर्णानामेव (१) वाचकत्वमस्तीत्यपास्तम् । तेषां स्फोटातिरिक्तत्वाभावात् । ४३९ यत्तु वर्णानां प्रत्येकं वाचकत्वे प्रत्येकादर्थबोधापत्तिः । समुदायस्य तु क्रमवतामाशुतरोत्पन्नानां तथैवाभिव्यक्तानां वा ज्ञानमसम्भाव्यमेव । पूर्वपूर्ववर्णानुभव संस्कार सहकारेणैकदा समूहालम्बनरूपसकलज्ञानसम्भवस्तु सरोरसः राजजरा नदीदी दावगाहिपदाविशेष्यकप्रत्यभिज्ञानुपपत्त्या चेत्यर्थः ॥ उक्तरीत्या क थञ्चिच्छक्तिग्रहोपपादनेऽप्यनित्यवर्णघटितपदवाक्ययोरप्यनित्यतया प्रत्यभिशाऽनुपपत्तिर्दुष्परिहरैवेति भावः । *एतेनेति* ॥ प्रत्यभिज्ञानुपपत्तिसिद्धाखण्डस्फोटस्य वाचकत्वव्यवस्यापनेनेत्यर्थः ॥ *अननुभवादिति ॥ तथाच तत्रैव प्रमाणाभावेन वाचकत्वं दुरपराहतमिति भावः ॥ *तेषाम् * - गकारादिवर्णानाम् ॥ *स्फोटातिरिक्तेति ॥ गत्वप्रकारकप्रतीतिविषयगादिस्फोटस्यैवाऽस्माभिर्वाचकत्वाभ्युपगमादिति भावः । क्रमिकाणामपि स्थायिनां सहावस्थानादुक्तम्-*आशुतरेति ॥ तृतीयक्षणवृत्तिध्वंसप्रतियोगिनामित्यर्थः । आशुतरविनाशिनां सहोत्पन्नानां समुदायसम्भवादुक्तं-#कमवतामिति* ॥ *असम्भाव्यमिति ॥ प्रत्यक्षे तादात्म्येन विषयस्य हेतुतया समूहरूपविषस्यैवाऽभावादिति भावः ॥ * पूर्वपूर्वेति* ॥ ननु वर्णानित्यतावादिमते तृतीयक्षणवृत्तिध्वंसप्रतियोगिनां तेषां प्रत्यक्षस्यैवासम्भवात् कथं तज्जन्यसंस्कारस्य सहकारितासम्भवः । तथाहि । कादिप्रतीतः ककारादौ विशेषणतया कादित्वमवगाहते । विशिष्टबुद्धौ विशेषणज्ञानस्य हेतुतया ककाराद्युत्पत्तिद्वितीयक्षणे निर्विकल्पक्रमभ्युपेत्य तृतीयक्षणे विशिष्टज्ञानवाच्यम् । तत्र न सम्भवति । (१) स्फोटातिरिक्तत्वाभावादिति । व्यञ्जकवायुसंयोगगत गत्वादिना स्फोटस्यैव भावादिति भावः ।

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498