Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 450
________________ स्फोटनिरूपणम् । ठः । एवं वाक्येऽप्याह-वाक्यादिति ॥ पदानामपि वाक्याद्विवेको= भेदो नास्तीत्यर्थः । अयं भावः । वाक्यं पदं चाखण्डमेव, न तु वर्णसमूहः । अनन्तवर्णकल्पने मानाभावात् । तत्तद्वर्णोत्पादकत्वेनाभिमतवायुसंयोगनिष्ठं तत्तद्वर्णजनकताया व्यञ्जकताया वाऽवच्छेदकं वैजात्यमादायैव ककारो गकार इत्यादिप्रतीतिवैलक्षण्यसम्भवात् । स्पष्टं हि भामत्याम् - "तारत्वादि वायुनिष्ठं वर्णेष्वारोप्यते" इत्यु ४३७ तीति* ॥ अवयवा इवेत्यर्थः । तथाच यथाश्रुतस्यैव दृष्टान्तत्वं नानुपपन्नमिति । 'विचिर् पृथग्भाव' इति प्रत्युपसृष्टघञन्तभावसाधन: प्रविवेकशब्दार्थः पृथग्भावो भेदे पर्यवस्यतीत्याशयेनाह - #भेद इति* ॥ ननु पदादिप्रतीतौ तदवयवानां वर्णानामुपलभ्यमानत्वात् कथं तदसत्त्वमत आह-*अयम्भाव इति ॥ *अखण्डमेवेति ॥ व्या ख्यातार्थम् । एवकारख्यवच्छेद्यं स्पष्टयति- - *न त्विति* ॥ *अनन्तेति* ॥ अनेकेत्यर्थः ॥ ननु 'ककारो, गकार' इति प्रतीतिरेव वर्णकल्पने मानम् | यदि च वर्णाभिव्यञ्जकत्वेनोत्पादकत्वेन वाऽभिमतवायुसंयोगविशेषाऽभिव्यक्तस्फोटे एव कत्वादिना तारसप्रतीतिविषय इति विभाव्यते, तदापि उत्पन्नः, ककारो, नष्टः ककारः' इत्यादिप्रतीत्यनुपत्तिः । स्फ़ोटाऽतिरिक्तककारादीनां त्वयाऽनभ्युपगमात् । तस्य च नित्यत्वात् । व्यञ्जकनिष्ठाया उत्पत्तेस्तद्विषयत्वे सुखादीनामपि नित्यतापत्तिरत आह-* तत्तद्वर्णोत्पादकत्वेनेति* ॥ वैजान्ये प्रमाणं दर्शयति-*वर्णजनकताया इत्यादि* ॥ तथाच तादृशवैजात्यं समवायेन स्फोटांऽशे आदायारोप्यांक्तप्रतीतिवैलक्षण्योपपत्ती न तदनुपपत्तिरतिरिक्तककारादिवर्णसाधिका । नाऽप्युत्पन्नः क इत्यादिप्रतीतिस्तथा । 'सोऽयं क' इत्यभेदतत्प्रत्यभिशारूपबाधकसस्वेन तादृशप्रतीतेर्भ्रमत्वात् । नाऽपि सुखादीनां नित्यतापत्तिः । तनाशकस्य खोत्तरवर्त्ति योग्यत्मकविशेषगुणस्य जागरूकत्वादिति भावः ॥ भामत्यामु= तन्नामकवाचस्पतिग्रन्थे ॥ *आरोप्यत इती

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498