Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 459
________________ दर्पणसहिते वैयाकरणभूषणसारे एव स्फोटः । अन्यथा कपालातिरिक्तघटायसिद्धिप्रसङ्गश्चेति प्र. तिपादितम् ॥ ६८॥ मनः कायाऽग्निमाहन्ति स प्रेरयति मारुतम् ॥ सोदीर्णो मूभिहतो वक्त्रमापद्य मारुतः। वर्णान् जनयते इत्यनेन हृदयावच्छिन्नमध्यमायां यो नादांश आन्तरप्र. णवरूपः स एव वाचकः । “ओंकार एव सर्वा वाक् सैषा स्पर्शीष्मभिर्व्यज्यमाना नानारूपा भवति" इति श्रुतेः । सर्वप्राणिहहे. शस्थत्वाच ब्रह्मपदव्यवहार्योऽपीत्यन्यत्र विस्तरः॥ *इति प्रतीतेरिति* || अन्यथा वर्णपरम्परारूपमालायास्तत्समू. हरूपपदानतिरिक्ततयाऽऽधाराधेयभावावगाहिप्रतीत्यनुपत्तिरिति भा. वः ॥ *अन्यथति* ॥ प्रतीतेः पदार्थासाधकत्व इत्यर्थः । *कपाले घट इति* ॥ प्रतीत्याभेदावगाहिन्या तसिद्धिप्रतीतेस्तदसाधकत्वे तु घटाद्यसिद्धिः स्पष्टैव । कपालतत्संयोगानादायैव ताशप्रतीत्यु. पपत्तेरिति भावः ॥ कौस्तुभे विति तुशब्देनाऽरुचिः सूचिता। तद्बीजं तु वर्णातिरिक्तस्फोटानङ्गीकारेऽपि नोक्तप्रतीत्यनुपपत्तिः । आनुपूर्व्यवच्छिन्नवर्णानां मालापदार्थत्वेन तत्रानुपूर्वीरुपपदस्याधाराधे. यमात्रसम्भवात् । घटकपालादीनां विजांतीयकरणजन्यत्वेन तद्भ दस्यापलपितुमशक्यत्वेनोक्तातिप्रसङ्गाभावाच्चेति। ___अन्ये तु-न वर्णानां स्फोटात्मकत्वम् । किन्तु स्फोटस्य वर्णाभि. व्यङ्गयत्वमेव । न च प्रत्येकव्य अकत्वपक्षोक्तदोषः । प्रयोगान्तर्गतस. कलवर्णानां तव्यञ्जकत्वेऽपि चरमवर्णाभिव्यक्तस्यैव तस्य वाचक. त्वोपगमादत एव नाद्यवर्णजाऽभिव्यक्त्युत्तरमर्थबोधः। तस्यैकत्वे. ऽपि तत्र व्यञ्जकरूपप्रतिबिम्बजन्यतद्रूपनिरूपितस्यैव प्रतीत्या नाना. त्वेन प्रतीतिरौपाधिकी। एकस्यैव मुखस्य कृपाणदर्पणाद्यभिव्यञ्जकवशाऱ्यावर्तलत्वादिप्रतीतिवत् । अत एवाऽभ्युपगमार्थ न तत्र जातिकल्पनापि । वर्णभिन्नव्यञ्जकाऽभावाच्च न कदाचिदपि वर्णराहित्येन तत्प्रतीतिस्तत्प्रतिबिम्बसमर्पकाश्च संस्कारा एव । ते च येन

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498