Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 460
________________ स्फोटनिरूपणम् । नन्वेवं शास्त्राप्रामाण्यप्रसङ्गः । पदस्याखण्डत्वात् । शास्त्रस्य च प्रकृतिप्रयाभ्यां पदव्युत्पादनमात्रार्थत्वादित्याशङ्कां समाधत्ते ४४७ पञ्चकोशादिवत्तस्मात् कल्पनैषा समाश्रिता ॥ ६९ ॥ - उपेयप्रतिपत्यर्था उपाया अव्यवस्थिताः ॥ उपेयप्रतिपत्यर्था इसन्तेनान्वयः । अयं भावः (१) । यथा क्रमेण चित्तस्थास्तेनैव व्यञ्जकरूपितता तस्येत्यभ्युपगमाच्च, न, सरो सर इत्यनयोरविशेषः । व्यञ्जकरूपरूापितस्यैव तस्याऽर्थे शक्तिग्रहाच, न घटादिपर्य्यायाभिव्यक्तस्फोटे गृहीतशक्तिकस्याप्रसिद्धपदश्रवणेऽर्थबोधापत्तिरत एवेदमेकं पदमेकं वाक्यमिति व्यवहारः स्वरसतः सङ्गच्छत इत्याहुः ॥ ६८ ॥ * एवमिति* ॥ अखण्डस्फोटस्यैव वाचकत्वे इत्यर्थः । अप्रामा• ण्यप्रसङ्गमेवोपपादयति-पदस्येति ॥ वाक्यस्याऽप्युपलक्षणमिदम् ॥ *अखण्डत्वादिति ॥ प्रकृतिप्रत्यय विभागशून्यत्वादित्यर्थः । तथाभूतस्यैव वाचकता भवद्भिरुपपादितत्वादिति भावः ॥ शस्त्रस्य=व्याकरणात्मकस्य ॥ *प्रकृतिप्रत्ययाभ्यामिति ॥ ताभ्यां यद् व्युत्पादनं = शक्तिबोधनं, तन्मात्रप्रयोजनत्वादित्यर्थः ॥ तथाच प्रकृतिप्रत्ययविभागेन पदार्थवाचकत्वबोधकस्यास्य शास्त्रस्य पदस्याऽखण्डत्वेऽप्रमण्यापत्तिरिति भावः ॥ *उपेयप्रतिपत्त्यर्थेति ॥ वचनविपरिणामेन उत्तरत्राऽप्यन्वति । उपयस्य बोधनीयस्य प्रतिप ये ऐषा कल्पना श्रिता स्वकृता मुनिनेति शेषः ॥ तत्र दृष्टान्तमाह - *पञ्चकोशादिवदिति । दृष्टान्तमेव स्फुटयति-अयम्भाव इति* ॥ तत्र हि, "भृगुर्वै वारुणिर्वरुणं ब्रह्म पृष्टवान् । स उवाचानं ब्रह्म" इति तस्योत्पत्यादि बुद्ध्वा पुनस्तेन पृष्टः " प्राणो ब्रह्म" इति (१) "अयंभावः । यथा भृगुवल्यामन्नप्राणमनोविज्ञानानन्दात्मककोशपञ्चकव्युत्पादनं शुद्धब्रह्मबोधाय याथावाऽऽनन्दवल्याम्" अयं पाठः दृश्यते क्वचित् ।

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498