Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 449
________________ ४३६ दर्पणसहिते वैयाकरणभूषणसारे इदानीमखण्डपक्षमाहपदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च ॥ ६८ ॥ वाक्यात पदानामत्यन्तं प्रविवेको न कश्चन ॥ .. पदे पचतीत्यादौ न वर्णाः। नातो वर्णसमूहः पदमिति शेषः । दृष्टान्तव्याजेनाह-वर्णेष्विति ॥ एकारौकारलकारऋकारादिवर्णे. ध्ववयवाः प्रतीयमाना(२)अपि यथा नेत्यर्थः । कचिदिवेत्येव पा. नाऽतिप्रसङ्गः । उत्तरत्वं तु स्वाऽधिकरणक्षणध्वंसाधिकरणसमयो. त्पत्तिकत्वम । तेन, 'पिष,मधु, शीघ्रम्' इत्यादौ न शीधुभागस्य पद. त्वम् । अन्यनिरूपिताव्यवधानादेरन्यसम्बन्धत्वाभावेन स्वत्वस्य प. रिचायकतया प्रवेशानाऽनुगमशङ्कापि । उत्तरवर्णोपस्थितेः पूर्ववर्णो. पस्थितिध्वंसानधिकरणसम्बन्धित्वात्तदधिकरणक्षणध्वंसानधिकर. णत्वाच निरुक्तसम्बन्धेन तद्वत्वमविकलम् । इत्थश्च पूर्वपूर्ववर्णोऽ. शे ऽलौकिकस्य चरमवर्णाऽशे लौकिकप्रत्यक्षस्य सम्भवात्तत्राऽर्थे बोधकत्वरूपशक्तः सुग्रहत्वादुक्तपदवाक्यस्फोटसिद्धिर्निराबाधेति भावः ॥ ६७॥ इति भूषणसारदर्पणे पदवाक्यस्फोटनिरूपणम् ॥ १४ ॥ अखण्डस्फोटनिरूपणेऽवसरस्य सङ्गतित्वं सूचयत्राह-*इदानीमिति ॥ सखण्डस्फोटनिरूपणानन्तरमित्यर्थः ॥ *अखण्डेति* ॥ पदवाक्ययोरखण्डत्वं चाविद्यमानावयवकत्वम । वर्णानामवयवाघ. टितत्वस्यापि सिषाधयिषितत्वादाह- दृष्टान्तेति ॥ दृष्टान्तवाक्य स्येवादिघटितत्वनियमेन तदभावात् कथं वर्णेग्वित्यादेस्तत्त्वमित्याशक्य यथाशब्दान्तर्भावेण मूलं व्याचष्टे-* यथेति ॥ *इवे. (२) प्रतीयमानेत्यादि । सा प्रतीतिस्तु तत्तदुश्चारणविशेषव्यङ्ग्यतत्तद्वर्णसमानाकारकध्वनिविशेषोपरागोपाधिका भ्रान्तिरेत्रातो नार्थसाधिका । एकारादाववयवकल्पने गौरवापत्तेः ।

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498