________________
४३६
दर्पणसहिते वैयाकरणभूषणसारे
इदानीमखण्डपक्षमाहपदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च ॥ ६८ ॥
वाक्यात पदानामत्यन्तं प्रविवेको न कश्चन ॥ .. पदे पचतीत्यादौ न वर्णाः। नातो वर्णसमूहः पदमिति शेषः । दृष्टान्तव्याजेनाह-वर्णेष्विति ॥ एकारौकारलकारऋकारादिवर्णे. ध्ववयवाः प्रतीयमाना(२)अपि यथा नेत्यर्थः । कचिदिवेत्येव पा.
नाऽतिप्रसङ्गः । उत्तरत्वं तु स्वाऽधिकरणक्षणध्वंसाधिकरणसमयो. त्पत्तिकत्वम । तेन, 'पिष,मधु, शीघ्रम्' इत्यादौ न शीधुभागस्य पद. त्वम् । अन्यनिरूपिताव्यवधानादेरन्यसम्बन्धत्वाभावेन स्वत्वस्य प. रिचायकतया प्रवेशानाऽनुगमशङ्कापि । उत्तरवर्णोपस्थितेः पूर्ववर्णो. पस्थितिध्वंसानधिकरणसम्बन्धित्वात्तदधिकरणक्षणध्वंसानधिकर. णत्वाच निरुक्तसम्बन्धेन तद्वत्वमविकलम् । इत्थश्च पूर्वपूर्ववर्णोऽ. शे ऽलौकिकस्य चरमवर्णाऽशे लौकिकप्रत्यक्षस्य सम्भवात्तत्राऽर्थे बोधकत्वरूपशक्तः सुग्रहत्वादुक्तपदवाक्यस्फोटसिद्धिर्निराबाधेति भावः ॥ ६७॥
इति भूषणसारदर्पणे पदवाक्यस्फोटनिरूपणम् ॥ १४ ॥
अखण्डस्फोटनिरूपणेऽवसरस्य सङ्गतित्वं सूचयत्राह-*इदानीमिति ॥ सखण्डस्फोटनिरूपणानन्तरमित्यर्थः ॥ *अखण्डेति* ॥ पदवाक्ययोरखण्डत्वं चाविद्यमानावयवकत्वम । वर्णानामवयवाघ. टितत्वस्यापि सिषाधयिषितत्वादाह- दृष्टान्तेति ॥ दृष्टान्तवाक्य स्येवादिघटितत्वनियमेन तदभावात् कथं वर्णेग्वित्यादेस्तत्त्वमित्याशक्य यथाशब्दान्तर्भावेण मूलं व्याचष्टे-* यथेति ॥ *इवे.
(२) प्रतीयमानेत्यादि । सा प्रतीतिस्तु तत्तदुश्चारणविशेषव्यङ्ग्यतत्तद्वर्णसमानाकारकध्वनिविशेषोपरागोपाधिका भ्रान्तिरेत्रातो नार्थसाधिका । एकारादाववयवकल्पने गौरवापत्तेः ।