________________
स्फोटनिरूपणम् ।
४३० सुतरां तत्समूहरूपवाक्यज्ञानासम्भव इति चेन्न । '
उत्तरवर्णप्रत्यक्षसमये तस्मिन्नव्यवहितोत्तरत्वसम्बन्धेनोपस्थितपूर्ववर्णवचं, तथा तदुत्तरप्रत्यक्षकाले उपस्थितविशिष्टतदणवत्त्व(१)तस्मिन् सुग्रहमिति तादृशानुपूर्वी घटितपदत्वस्येव वाक्यत्वस्यापि सुग्रहत्वात् ॥ ६७ ॥
त्पन्नानामिति ॥ वर्णानित्यतावादिमते वर्णानां योग्यविभुविशषगु. णत्वेन स्वोत्तरोत्पन्नगुणनाश्यत्वादेकदाऽवस्थानासम्भवः । तन्नित्यतावादिमते त्वाह-*अभिव्यक्तानामिति ॥ वर्णी नित्याः, किन्तु तदभिव्यक्तिरेवानित्या । वोत्पादकत्वेनान्याभिमतानामेव कण्ठा. द्यभिघातादीनां तदभिव्यञ्जकत्वाभ्युपगमात् । तथाभिव्यक्तपि यो. ग्यविभुविशेषगुणतया स्वोत्तरोत्पन्नगुणनाश्यत्वाविशेषात् । क्षणि. कत्वात्तद्विशिष्टवर्णानामपि युगपदवस्थानासम्भव एवेत्यर्थः।
नन्वस्तु वर्णानां युगपदनवस्थानं, किमस्माकमनिष्टमत आह-* वर्णसमूहेति ॥ वाक्यस्फोटकल्पेऽपि तदाह-*तथाचति ॥ *शा. नासम्भव इतीति* ॥ आशुविनाशिनां क्रमिकाणां मेलकाऽसम्भवादन्तिमवर्णोत्पत्तिकाले, तदभिव्यक्तिकाले वा पूर्वपूर्ववर्णानां तावद. भिव्यक्तानां वाऽवस्थानासम्भवेन तत्समूहरूपपदस्य वाक्यस्य वा तादात्म्येन प्रत्यक्षकारणस्याभावात् । प्रत्यक्षस्यैवाऽसम्भवेन तत्रोक्त. शक्तिग्रहस्य गगनकुसुमायमानत्वादित्यखण्डलार्थः। __अभिव्यक्तिपक्षमादाय समाधत्ते *उत्तरवर्णप्रत्यक्षेति* ॥ *अव्यवहितोत्तरेति ॥ एतन्मध्ये वर्णानां नित्यत्वेन सर्वेषामेव वर्णानामव्यवधानेन स्वाधिकरणक्षणोत्तरकालवृत्तित्वादव्यवस्थाप. त्या स्वस्वाभिव्यक्तिगतमेवाव्यवहितोत्तरत्वं वाच्यम् । तदारोपा. देव वर्णेष्वव्यवहितोत्तरत्वव्यवहारः । अत एव तत्रोपस्थितेर्विशेषणतया निवेशः । तच्चाव्यवहितत्वे सत्युत्तरत्वम् । अव्यवहितत्वं च स्वध्वंसानाधिकरणक्षणसम्बन्धित्वम् । तेन 'घटित, घट' इत्यादौ
(१) उपस्थितविशिष्टतद्वर्णवत्वमिति । उपस्थितो यः प्रथमवर्णः विशिष्टो द्वितीयो वर्ण इत्यर्थ एवमन्यत्र ।