________________
४३४ दर्पणसहिते वैयाकरणभूषणसारे आवापोद्वापाभ्यां परं प्रत्येकं तद्ग्रह इति बोध्यम् ॥ ६६ ॥
इयमेव मीमांसकानां वेदान्तैकदशिनां च गतिरित्याहसर्वत्रैव हि वाक्यार्थो लक्ष्य एवेति ये विदुः ॥ ६७॥ भाहास्तेऽपत्थमेवाहुर्लक्षणाया ग्रहे गतिम् ॥
भाहा इति तदनुयायिनां वाचस्पतिकल्पतरुप्रभृतीनामुपल. क्षणम् ।
ननूक्तपक्षद्वयमनुपपन्नम् उत्पत्तेरभिव्यक्त(कदाऽसम्भवेन उत्पन्नानामभिव्यक्तानां वर्णसमूहरूपपदज्ञानासम्भवात् । तथाच
ननु तर्हि पदस्फोटस्य निरालम्बनतापत्तिरत आह-आवापो. द्वापाभ्यामिति* ॥ आनयनाऽपसारणाभ्यामेकपदोपदानापरापदानुपा. दानाभ्यामित्यर्थः । तद्ग्रहा=प्रत्येकपदे प्रत्येकपदार्थशक्तिग्रहः । त. थाच प्रत्येकपदशक्तिसाचिव्येनाऽऽकाङ्कादिवशात् पदाद्वाक्यार्थशा. ब्दबोधस्तदा पदस्फोटो, यदा तु तन्निरपेक्ष्यैव सा बोधं जनयति त. दा वाक्यस्फोट इति मतद्वयं पर्यवस्यतीत भावः। ,
केचित्तु-उपस्थितपदार्थस्तदुपस्थितिर्वा शाब्दबोधहेतुर्न तु प. दज्ञानमपि । तद्विनाऽपि शाब्दबोधोदयेन व्यभिचारात् । तदुक्तं
पश्यतः श्वेतमारूपं द्वेषाशब्दं च शृण्वतः। खुरविक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः ॥ इति ॥
तन्न । शब्दं विना जायमानस्य घटादिचाक्षुषस्यापि शान्दापत्तेः । तत्र पश्यामि, न शाब्दयामीत्यनुव्यवसायान शाब्दत्वं यदि, तदा प्रकृतेऽपि समम् । उक्तप्रतीतेरनुमानेनैव निर्वाहात् तत्र शाब्दप्रत्ययस्त्वसिद्ध एवेत्यादि स्वयमूहम् ।। ६६॥ ___ *उपलक्षणमिति* ॥ त्वन्मते, गभीरायां नद्यां घोष इत्यादी प्र. त्येकपदशक्त्या स्वशक्यसम्बन्धरूपलक्षणयोक्तदिशाऽभीप्सितार्था. न्वये बाधाऽसम्भवात् स्वबोध्यसम्बन्धस्य लक्षणत्वाभ्युपगमेन वाक्यार्थमात्रे वाक्यलक्षणाङ्गीकारादिति भावः ॥ *पक्षद्वयामिति ॥ पदवाक्यभेदेन व्यवस्थितं स्फोटद्वयमित्यर्थः । अनुपपत्तिमेवाह-*उ.