________________
स्फोटनिरूपर्णम् ।
वोपयुज्यत इति वादाभ्युपगमस्तुल्य इति भावः ।
ननु वृद्धव्यवहारं पश्यतो मनसा पदार्थवद्वाक्यार्थेऽपि तद्ग्रह इति चेत् तुल्यमित्याह - लक्षणादिति ॥ लक्ष्यते ततेऽनेनेति लक्षणं मनस्तस्मात् । अपिपदं पदपदोत्तरं बोध्यम् । पदेऽपि लक्षणात्तदग्रहश्वेतर्ह्यस्तु वाक्येऽपीति शेषः ।
वस्तुतस्तु समुदितार्थे विशिष्टवाक्यस्यैव प्रथमं तदूग्रहः ।
४३३
वाक्यार्थशक्तिग्रहासम्भवः समान इत्यर्थः ॥ *शातेति ॥ पदार्थानां प्रागुपस्थित्या तत्र पदार्थशक्तिग्रहसम्भवादिति भावः । *अशातैवेति । वृत्त्यभ्युपगमस्तु शाब्दे भानापत्त्यैवेति भावः ॥ पदाऽर्थवदिति सप्तम्यन्ताद्वतिः । उपमेये सप्तमीदर्शनात् ॥ वाक्यार्थेऽपि-संसर्गेऽपीत्यर्थः । इदं च बोध्यत्वे शक्तिरित्यभिप्रेत्य ॥ तद्ग्रहः शक्तिग्रहः । लक्षणशब्दस्य चिह्नादौ प्रसिद्धेः प्रकृतोपयोग्यर्थपरतया तं व्याचष्टे - #लक्ष्यत इति ॥ मूले, *अर्थे इति ॥ निरूपितवं सप्तम्यर्थः । तच्छब्दाऽर्थे शक्तिज्ञानेऽन्वेतीत्यभिप्रेत्य व्याचष्टे -*पदेऽपी• त्यादि* ॥ *तदग्रह इति वाक्यार्थनिरूपितशक्तिग्रह इत्यर्थः ॥
अयं भावः । घटमानयेत्यादिवृद्धव्यवहाराद्यस्य पदे पदार्थशक्तिनिर्णयस्तस्य तद्वाक्यश्रवणे पदैः पदार्थोपस्थित्यादिसमवधाने मनसा तत्संसर्गोपस्थितिर्नानुपपन्ना | परन्तु मानसस्य प्रायः सं शयात्मकस्यापि सम्भवात्तनिश्चयार्थे शब्दाssदरः । तत्र शक्तिग्रहहेतुलिङ्गादेर्निर्णायकस्य सत्त्वेन संशयकत्वासम्भवादिति ।
ननु शब्दनिष्ठशक्ति निर्णयस्यैव शाब्दबोधे हेतुतावधारणने त स्य शाब्दबोधात् प्रागुक्तरीत्याऽसम्भवेन वाक्यशक्तेः शाब्दबोधहेतुत्वं दुर्घटमेवेत्यत आह - * वस्तुतस्त्विति* ॥ तद्ग्रहः = विशिष्टवाक्यार्थशक्तिग्रहः । तथाच शक्तिग्राहकशिरोमणिना व्यवहारेण पूर्वे वा • क्य एव शक्तिग्रहेण तस्यैव शाब्दबोधहेतुत्वाऽवधारणा तादृशवृत्ते स्वाश्रयविषयकत्व स्वविषयोबुद्ध संस्कारसामानाधिकरण्योभयसम्बन्धेन वैशिष्टयस्येदानीन्तनवाक्यज्ञानेऽप्यक्षतत्वान्न वृत्तिज्ञानस्य शाब्दबोधे हेतुतायां व्यभिचारः । मध्ये वाक्यार्थोपस्थितरनपेक्षणाच्च नोक्तदोषावसर इति भावः ।
腐
५५