________________
કર दर्पणसहिते वैयाकरणभूषणसारे - ननु वाक्यार्थस्यापूर्वत्वात् कथं तत्र शक्तिग्रह इत्याशङ्ख्याहअर्थ इति ॥ वाक्यस्येति शेषः। वाक्यस्य वाक्यार्थे विशिष्य शत्यग्रहणश्चेत्तर्हि पदेऽपि समम् । पदे एवान्वयांशे शक्तिरिति पक्षेऽपि तद्ग्रहासम्भवस्तुल्य इयर्थः । - यदि च पदशक्तिः पदार्थाशे ज्ञाता अन्वयांशे वाऽज्ञातो. पयुज्यत इति कुजशक्तिवादस्तदा ममापि वाक्यस्य शक्तिरज्ञातै.
शब्दादर्थप्रत्ययः" इति कणादोक्तेर्वाक्यशक्तिग्राहकानुशासनादेरभावन तद्ग्रहाऽसम्भवाच्चेति वाक्यस्फोट आपातरमणीय एवेति ॥ पूर्वोक्तशकिग्रहप्रकारस्य शैथिल्यं मनसि निधाय तस्मिन् प्रकारा. न्तरं वक्तुमाग्रिमग्रन्थ इत्याशयेनाह-*नन्विति* ॥ अपूर्वत्वात्शाब्दबोधात् प्रागनुपस्थितत्वात् (१)। __ननु शाब्दबोधात् पूर्व पदे प्रत्यक्षायुपस्थितपदार्थनिरूपित. शक्तग्रहः सुलभ एवेति, पदे सममिति मूलमनुपपन्नमत आशयं प्र. काशयति-*पद एवंति* ॥ पदानामेवान्वितपदार्थे शक्तिरन्वयश्च सामान्यरूपेण ज्ञात अत एव घटादिपदादन्वितघटाधुपस्थितौ नियमेन तत्प्रतियोग्याकाङ्क्षा भवति-किमन्वितो घटः, किमन्वितं क. मत्वमित्याद्याकारा । सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकजिज्ञासाजनकत्वात् । विशेषरूपेण भाने त्वमादिपदसमभिव्याहारो नियामकोऽत एव तस्य शाब्दे भानम् । पदवृत्तिविषयत्वात् । अशक्यस्यापि भानातिप्रसङ्गात् । न चैवं घटमानयेत्यत्रेतरान्वितं कर्मत्वमिति रीत्यानेकधा संसर्गस्य भानापत्तिस्तत्तत्पदभ्यस्तथार्थोंपस्थितावप्याकाङ्क्षावशादेकधैव तद्भानप्रसङ्गात् ।
नचाकालायास्तद्भाननियामकत्वावश्यकत्वेन तत्र वृत्तिकल्पनाऽपार्थेति वाच्यम् , । अशक्यभानाभेयैव तदभ्युपगमात् । तथाच . दशक्त्यैव संसर्गभानोपपत्तौ तत्र न वाक्यशक्तिः। पदत्वापेक्षया वाक्यस्य गुरुत्वाञ्चेति तन्मतम् । तथाचान्विताभिधानमतेऽपि पदे : (१) तेन कचिदिन्द्रियेण तज्ज्ञानसम्भवेऽपि न क्षतिः।