SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ स्फोटनिरूपणम् । नाsपि तेभ्य आकाङ्क्षादिरूपकारणसमवधानादेव विशिष्टबोधोपपतेः । एकपदार्थविशिष्टापरपदार्थशाब्दत्वस्यैव तत्कार्य्यतावच्छेद कत्वात् । ४३१ यत्तु लाघवाद् वृत्तिज्ञानजन्योपस्थितेर्विषयतासम्बन्धेन हेतुत्वमेव वाक्यशक्तौ प्रमाणमिति । तन्न । स्वातन्त्र्येण तद्धेतुत्वस्यैवासिद्धेः [ः । तथाहि । तादृशकार्यकारणभावे वृत्तित्वेन पदवृत्तेर्निवेशः किं वाक्यवृत्तेः, किं वा वृत्तिसामान्यस्य ? । न तावदाद्यः । पदवृत्तिज्ञानजन्योपस्थितेः शाब्द हेतुत्वस्य सर्वेरेवाभ्युपगमात् । न द्वितीयः । वाक्यवृत्तस्ततः प्रागसिद्धेः । अत एव न तृतीयः । किञ्च तव मते वाक्यशक्तिजन्योपस्थितेः शाब्दबोधात्मकत्वेन तस्मिंस्तद्विषयत्वासम्भवादपि नोक्तरीतिः साधीयसी । अपि च वाक्यवृत्तिज्ञानस्य शाब्दसामान्येन स्वातन्त्र्येण हेतुत्वं यदा कदाचिद्विवरणादिना घ टादिपदशक्तिज्ञानजन्यपदार्थोपस्थितिदशायां घटमानयेति वाक्यशक्तिमविदुष आकाङ्क्षादिवशाच्छाब्दबोधोदयेन व्यभिचारात् । यदपि समभिव्याहाररूपाका चैव वाक्यमिति । तदपि न । तथा सति घटीया कर्मतेत्यादिबोधे घटमानयेति वाक्यं साकाङ्क्ष, निराकाङ्गं च घटः कर्मत्वमिति सर्वसिद्धव्यवहारानुपपत्तिः । पदयोः समभिव्याहार इतिवत् पदयोर्वाक्यमिति व्यवहारप्रसङ्गश्चेति समभिः व्याहृतपदानामेव वाक्यत्वमुपगन्तव्यम् । तथाच समभिव्याहारस्य शाब्दबोधहेतुत्वेऽपि वाक्यस्य तत्त्वं दुरुपपादमेवेति क्व वाक्यशक्तिसिद्धिः । समभिव्याहारनिष्ठबोधजनकत्वग्रहवतो बोधे तज्ज्ञानं हेतुरित्यपि रिक्तं वचः । अन्वयव्यतिरेकाभ्यां समभिव्याहारज्ञानस्यैव शाब्दधीहेतुत्वेन तन्निष्ठबोधजनकत्वज्ञानस्य हेतुताया एवाभावात् । न च तदपि सम्भवति । शाब्दबोधात् प्राक् संसर्गस्यैवा नुपस्थितेः । सामान्यतस्तदुपस्थितावपि विशेषरूपेण भानाऽर्थ तात्पर्य्यज्ञानाद्यपेक्षणे च मूलशैथिल्यात् तव वाक्यशक्तेरेवासिद्ध्यापत्तिः । वक्ष्यमाणरीत्या शाब्दबोधात् प्राक् तदुपस्थित्यभ्युपगमे वाक्यवृत्तिज्ञानजन्योपस्थित्यनन्तरं शाब्दबोधाभ्युपगमे वा शाब्दप्रामाण्यभङ्गापत्तिः। अनधिगतार्थग्रह कारणस्यैव प्रमाणत्वात् । अत एव सूत्रकृता " कृत्तद्धितसमासाश्च" ( पा० सू० १ २ ४६ ) इत्यत्र समासग्रहणं कृतम् । वाक्यशक्तौ तु तद्वैयर्थ्य स्पष्टमेव । “सामयिकः
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy