________________
४३०
दर्पणसहिते वैयाकरणभूषणसारे
हेतुत्वसिद्धेः । विवेचितञ्चैतद् भूषणे ।
त्तिज्ञानवतो घटमानयेति वाक्याद् बोधापत्त्या घटशाब्दबोधे घटार्थकपदवृत्तिज्ञानजन्योपस्थितित्वेन हेतुता वाच्येत्यर्थभेदेनानन्तकाय्र्यकारणभावकल्पने गौरवम् । अस्मन्मते तु विषयतासम्बन्धेन घटवृत्तिज्ञानजन्योपस्थितेरसत्त्वान्न शाब्दे तस्य भानमित्येक एव कार्यकारणभावः कल्प्यत इति लाघवेनेत्यर्थः ॥
ननु घटघटत्वयोर्विशेष्यविशेषणभावे विपरीतव्युत्पन्नस्य घटमानयेत्यतो घटत्वविशिष्टबोधवारणाय घटत्वविशिष्टबोध्योपस्थितेर्घटपदवृत्तिज्ञानजन्यघटत्वविशिष्टाया हेतुताया अवश्यवाच्यतया तत एवानतिप्रसङ्गे उक्तकार्य्यकारणभावे मानाभावोऽत आह*विवेचितं चैतदिति* ॥ पदपदार्थभेदेनानन्तकार्य्यकारणभावे प्रवृत्तिप्रवेशमपेक्ष्य उपस्थितेः पदज्ञानजन्यत्वनैव शाब्दसामग्रीकुक्षौ प्रवेश उचितः । तथा सति समवायेनाकाशस्य जनकतयोपस्थित. स्य देवदत्तादेश्व शाब्दे भानवारणाय विषयतया शाब्दसामान्ये वृत्ति जन्योपस्थितेर्विषयतया हेतुत्वं वाच्यम् । एवञ्च संसर्गस्य शाब्दे भानानुरोधेन संसर्गेऽपि वृत्तिकल्पनमावश्यकम् । तथाच पदैः पदार्थानां वाक्येन वाक्यार्थस्य बोध इति न विशेष्याविशेषणव्यत्यासेन शाब्दबोधे पदार्थानां भानम् । पदोपस्थितानामेव संसर्गस्य वाक्य. शक्त्या बोधादितिवृत्तिज्ञानस्येति यथाश्रुतार्थकमेव तत्र विवेचितम् ।
वस्तुतस्तु वृत्तिज्ञानपदं यथाश्रुतार्थकमेव वृत्तिज्ञानस्यत्यनन्तरम्, अनुषक्तविषयतासम्बन्धेनेस्य वृत्तिज्ञानविषयबोधकत्वघटकबोधीयविषयतासम्बन्धेनेत्यर्थः । अन्यथा वाक्यवृत्तिज्ञानजन्योप स्थितेरेव शाब्दबोधत्वेन तस्मिँस्तेन सम्बन्धेन तद्धेतुत्वासम्भवेन वाक्यशक्तेर्गर्भस्रावादिति बोध्यम् ।
अत्र वदन्ति । पदजन्यपदार्थोपस्थितिमन्तरेण शाब्दबोधानुदयान्तादृशपदार्थोपस्थितेः शाब्दबोधे हेतुतेति तावन्निर्विवादम् । पदस्य च प्रकृत्याद्यात्मकस्याऽर्थे सम्बन्धं विना तदुपस्थापकत्वासम्भवात्तस्मिन् वृत्त्यात्मक सम्बन्धोऽप्यावश्यक एव, न तु तत्समुद्रान्यरूपपारिभाषिकपदस्य तत्समूहरूपवाक्यस्य विशिष्टार्थे खः। तं वि.
•