________________
..... स्फोटनिरूपणम् ।
४२९ बोधकतारूपवाक्यशक्तिज्ञानस्यापि हेतुत्वकल्पनात् । अर्थोपस्थापकज्ञानविषयशब्दवृत्तिज्ञानकारणत्वस्यैव शक्तित्वात् । युक्तं चैतत् । विषयतासम्बन्धेन शाब्दबोधमात्रे वृत्तिज्ञानस्य लाघवेन
द्धिनिराबाधेत्याशेयनाह-*तथेति ॥
ननु शाब्दबोधे हेत्वर्थोपस्थितिजनकत्वं शक्तित्वम् । तत्नु पद. एव, न वाक्ये । तनिष्ठबोधकतायास्तादृशोपस्थित्यजनकत्वादत आ. ह-*अर्थोपस्थापकेति* ॥ *शब्दवृत्तीति* ॥ शब्दनिष्ठं यद्बो. धकारणत्वमित्यर्थः। तथाचोपस्थितौ शाब्दहेतुत्वनिवेशे एतत्कल्पे प्रयोजनाभावेन तज्ज्ञानस्य तादृशोपस्थित्यजनकत्वेऽपि शक्तिताऽक्ष. तेः । बोधकशब्दस्य शब्दत्वेन निवेशाचाऽपभ्रंशस्यापि संग्रह इति भावः।
ननु वाक्यशक्तिवादिमते संसर्गरूपवाक्यार्थस्य नानात्वात्तद्भदेन शक्त्यानन्त्यम् ॥ किञ्च पदवृत्त्या वाक्यशक्तिं विनाऽपि वाक्याऽर्थ. बोधजननाद्वाक्यशक्तिग्रहस्य तद्धतुतायां व्याभिचारः। अखण्डवा. क्यपक्षस्तु नेदानी प्रक्रान्तः । कार्यतावच्छदकेऽव्यवहितोत्तरत्वानि. घेशेन तद्वारणेऽप्यनुपस्थितसंसर्गे वाक्यशक्तिग्रहः शाब्दबोधात् प्रा. गसम्भवीति कथं तस्य कारणतेति चेत् सत्यम् । संसर्गस्य विशि. ध्यानुपस्थितावपि तदादिवत कारकविभक्तिविशिष्टधातुपदं कारकविशिष्टक्रियाबोधकमिति सामान्यतस्तद्ग्रहात् । तात्पर्यग्रहस्य त्वयाऽप्येवमेव वाच्यत्वात् । अनन्तरं पदविशेषसमभिव्याहारण तात्पर्य्यवशात् संसर्गविशेषेण तत्कारकविशिष्टतक्रियामानम् । ना. पि संसर्गाऽऽनन्त्यप्रयुक्तशक्त्यानन्त्यम् । सम्बन्धत्वस्यानुगमकस्य नियामकताप्युभयोः समैवेति तन्मतनिष्कर्षः।
ननु स्यादेवाक्तप्रकारो यदि वाक्यनिष्ठबोधकतायाः शक्तित्वं स. प्रमाणं स्यात्, तदेव तु नेत्यत आह- युक्तं चैतदिति ॥ एतद्धाक्यनिष्ठबोधकत्वस्य शक्तित्वम् । युक्तिमेवाह-*विषयतेति । शाब्दबोधमात्रे तत्सामान्य इत्यर्थः॥ *वृत्तिज्ञानस्येति* ॥ वृत्तिझानजन्योपस्थितिरित्यर्थः । विषयतासम्बन्धेनेत्यनुषज्ज्यते॥ *लाघघेनेति* ॥ अन्यथा घटपदशक्तिमाविदुषस्तत्पदज्ञानवतो यत्किञ्चिद्ध