SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४२८ दर्पणसहित वैयाकरणभूषणसारे थशक्तिः पदेविव वाक्यार्थशक्तिर्वाक्येऽभ्युपेयेति पदस्फोटवाक्यस्फोटौ व्यवस्थितौ। अन्यथा घटः कर्मत्वमानयनं कृतिरित्यादौ तादृशव्युत्पत्तिरहितस्यापि बोधप्रसङ्गः । घटमानयेत्यत्रेव पदार्थानामुपस्थिती, सत्यपि तात्पर्यय ज्ञाने बोधाभावाच्च । तत्रैव घटकर्मकमानयनमिति बोधे घटार्थकप्रातिपदिकोत्तरकर्मत्ववाचकविभक्तस्ततो धातोस्तत आख्यातस्य समाभव्या. हारः कारणमिति कार्यकारणभावज्ञानवतो बोधात्तज्ज्ञानमपि हेतुरिति चेत्तर्हि सिद्धो वाक्यस्फोटः । घटादिपदार्थबोधे बोधकतारूपपदशक्तिज्ञान कार्यकारणभावस्येव विशिष्टवाक्यार्थबोधे पदसमाभिव्याहाररूपवाक्यनिष्ठ पदमहिम्ना पक्षद्वयं व्यवस्थितमिति लभ्यते, तथापि आवश्यकवा. क्यस्फोटेनैवोपपत्तौ पदस्फोटकल्पनं नावश्यकमिति सिद्धान्ते वा. क्यस्फोट एव पर्यवस्यतीति बोध्यम् । वाक्यस्फोटस्यावश्यकता. मेव दर्शयति-*अन्यथेति ॥ वाक्यशक्त्यनभ्युपगमे इत्यर्थः। *तादृशेति* ॥ वाक्यार्थबोधजनकत्वरूपवाक्यशक्तिज्ञानरहितस्या. पीत्यर्थः । तत्सत्वे तु तत्राऽपि बोध इष्ट एवेति भावः ॥ बोधप्रसङ्गः= घटकर्मकानयनानुकूलकृतिबोधापत्तिरित्यर्थः। पदवृत्तिज्ञानजन्यप. दार्थोपस्थितेः सत्त्वादिति भावः ॥ *घटमानयेत्यत्रेवेति* ॥ अत्रताहशव्युत्पत्तिरहितस्येत्यनुषज्यते । ननु शाब्दबोधकारणार्थतात्पर्यज्ञानरूपसहकार्यन्तराभावादेव न बोधोऽत आह-*सत्यपीति* ॥ *बोधाभावादिति ॥ तादृश. बोधाभावादित्यर्थः । तथाच पदाभावात् कार्याभावस्तस्य तद्धे. तुतया वाक्यशक्तिरावश्यिकेति भावः । एतेन व्यतिरेकसहचारका. रणताग्राहकः प्रदर्शितः । अन्वयं प्रदर्शयन् वाक्यशक्ति व्यवस्थाप. यति-*तत्रैवेति * ॥ घटमानयेत्यत्रैवेत्यर्थः ॥ बोधादित्यनेन स्वरूप. सतो हेतुत्वव्यवच्छेदः । तादृशसाकाङ्गनिष्ठबोधहेतुत्वस्यैवास्मन्मते वाक्यशक्तित्वेनाकालाशक्तिरिति परिभाषाभेदेऽपि वाक्यस्फोटसि
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy