SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे नादिसाधारण इत्यतिप्रसङ्ग इति स्फोट एवाखण्डो नादाभि. व्यङ्गयो वाचक इति कैपटः । तत्तुच्छम् । पदज्ञानसम्भवस्पोपपा. सम्बन्धवति मानं च दृश्यते चक्षुरादिना । इति वृद्धोक्तेः । प्रत्यक्षे विषयस्य कार्यसहभावेन हेतुतया तृती. यक्षणे तद्वर्णरूपविषयस्याभावात् । न च ककाराद्युत्पत्तिक्षणोत्पन्न कत्वादिस्मृत्यैव द्वितीयक्षणे एव स विकल्पसम्भव इति वाच्यम । एवमपि प्राथमिकविशिष्टबुद्धेर्दुरुपपादत्वादितिचेत् । ___ अत्र वदन्ति । संसारस्यानादितया बालस्य स्तनपानप्रवृत्तिहत्वि. ष्टसाधनत्वस्मृतेरिव प्राथमिककत्वादिविशिष्टबुद्धिजनकस्मृतेः स. भवान्न तदनुपपत्तिः । ककाराद्युत्पत्त्यनन्तरं ककारो गकार इतिवि. शिष्टबुद्धेरेव च तादृशकल्पने मानमिति । ___अन्ये तु प्रतियोगितासम्बन्धेन योग्यविभुविशेषगुणनाशं प्रति स्वसामानाधिकरण्यस्वाव्यवहितपूर्ववत्तित्वोभयसम्बन्धन सामान्य. तस्ताहशविशेषगुणस्य कारणता स्यात्तदा ककारादिप्रत्यक्षाऽनुपपत्तिः प्रसज्ज्यताऽपि । सैव न । अन्तिमशब्दनाशे सुषुप्तिप्राक्कालात्पन्नशा. नादिनाशे च व्यभिचारात् । किन्तु विजातीयगुणनाशे वैजात्यं चर. मशब्दादिव्यावृत्तमिव प्राथमिकविशिष्टबुद्धिविषयवर्णव्यावृत्तमपि । न च तादृशवैजात्यं मानाऽभावः । नाश्यताऽवच्छेदककोटिप्रविष्टत. यैव तत्सिद्धेः । तथाचान्तिमशब्दनाशेन द्वितीयक्षणस्यैव तादृशवर्णनाशेऽपि न तृतीयक्षणस्य तद्व्यक्तित्वेन हेतुत्वकल्पनात्र तृ. तीयक्षणस्थायिनस्तस्य प्रत्यक्षानुपपत्तिरुक्तहेतुहेतुमद्भावस्वीकारेऽ. पीत्याहुः। *अतिप्रसङ्ग इति* । सरसशब्दघटकसकाराकाररेफविसर्गानु: भवजन्यसंस्कारे रसबोधापत्तिरित्यर्थः। *नादाभिव्यङ्गय इति । ध्वन्यन्तर्गतवर्णाभिव्यङ्गय इत्यर्थः। अखण्डवर्णाघटितः । उपपादितत्वादित्यस्य सखण्डस्फोटनिरूपणावसर इति शेषः । तादृशप्रत्य. क्षस्यान्तिमवर्णाशे लौकिकस्थाऽतीतवर्णाशेऽलौकिकस्य सरोरस इत्याद्यनतिप्रसतस्योपपादितत्वादित्यर्थः। अतिरिक्तस्य बाचकत्वे
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy