________________
. स्फोटनिरूपणम् ।
४४१ दित्वात् । वर्णानां प्रत्येकं व्यञ्जकत्वं समुदितानां वेत्यादिविकल्पग्रासाच्च ।
ननु त्वन्मतेऽप्येष दोषः । तत्तद्वर्णोत्पादकत्वेनाभिमतवा. युसंयोगानां प्रत्येक व्यञ्जकत्वं समुदितानां वेति विकल्पस्य स. द्भावादिति चत् । उच्यते । प्रसेकमेव संयोगा अभिव्यञ्जकाः,
दृषणमाह-*वर्णानामिति । *विकल्पग्रासादिति । प्रत्येकव्यञ्ज. कत्वे आद्यवर्णादेव तदभिव्यक्तिसम्भवे इतरोच्चारणवैयर्थ्यांपत्तेरति. प्रसङ्गाच्च । समुदायस्य तूक्तरीत्या दुरुपपादकत्वेन तद्व्यञ्जकत्वस्याप्यसम्भवदुक्तिकत्वादित्यर्थः (१)।
कयटाऽनुयायिनस्तु-पूर्वपूर्ववर्णकाले चेद् द्वितीयादिवर्णोत्पत्तिः सम्भवेत् तदा स्यादपि कथञ्चिद्भवदुक्तरीत्या पदवाक्यप्रत्यक्षनि र्वाहः । सैव न, किन्तु यावद्गकारे यतितं तेन तावदोकारे तेनैव यत्मेनैको वर्ण उश्चार्य्यते । तेनैव विच्छिन्ने तस्मिन् वर्णे उपसंहृत्य तं यत्नमन्यमुत्पाद्य द्वितीयः प्रवर्तते" इति, "परः सन्निकर्ष" (पा० सू०१।४।१०४) इति सूत्रस्थभाष्यप्रामाण्यातू पूर्ववर्णविनाशानन्तरं यत्नान्तरेण द्वितीयवर्णाऽभ्युपगमात् । - किश्च भवन्मते वर्णप्रत्यक्षस्यैवाऽनुपपत्तिः । तेषामुञ्चरितप्रध्वं. सित्वेन तदुत्पत्तेरभिव्यक्तर्वा क्षणिकत्वेनातीन्द्रियक्षणावच्छिन्नत्वात् । तथा "इको यणचि" (पा० सू०६।१।७७) इत्यादिसूत्रोपयो. गिनोऽयं पूर्वोऽयं पर इति प्रत्यक्षविषयार्थकेदंशब्दाभिव्यज्यमानपौ. वापर्यव्यवहारस्यासम्भवः । एवं नष्टविद्यमानयोः सम्बन्धिनारख्य. वहितोत्तरत्वस्य सम्बन्धताया वक्तुमशक्यतयाऽपि पूर्वोक्तरीत्या पदप्रत्यक्षानुपपत्तिः । अपिच गृहीतशक्तिकस्यैव बोधकत्वमितिनियमेनोच्चारणभेदाद्भिन्नेषु शक्तिग्रहासम्भवः। आनुपूर्यास्तत्तत्का.
(१) यदि चरमवर्णस्यैव व्यञ्जकत्वमिति चेत्-तर्हि इतरवर्णवैयर्थ्यरूपदोषोऽस्त्येव । पूर्वपूर्ववर्णानुभवजसंस्कारसाहेतचरमवर्णानु. भवस्य व्यञ्जकत्वे तस्यैवार्थप्रत्यायकत्वमस्तु किमतिरिक्तस्फोटाही. कारेणेति भावः ।