________________
४४२ दर्पणसहित वैयाकरणभूषणसारे परन्तु केचिद् गत्वेन, केचिदौत्वेन, केचिद्विसर्गत्वेनेत्यनेकैः प्र. कारैः । अत एव वर्णानां तदतिरेकास्वीकारोऽप्युपपद्यते ।
एवञ्चाव्यवाहितोत्तरसम्बन्धेन घवत्त्वं टकारे गृह्यते । एतादृशपदज्ञानकारणताया अविवादात् । परं स्वव्यवहितोत्तरत्वं
लघटिताव्यवहितोत्तरत्वघटितत्वेनाऽननुगमकत्वाच्छक्ततावच्छेदक स्वासम्भवात् । अखण्डस्फोटाऽङ्गीकारे तु तत्तद्वर्णोपाध्यवच्छिन्ने त. स्मिन् पौर्वापादिव्यवहारविषयत्वस्य सुपपादत्वानोक्ताऽनुपपत्तिः। तस्य चाऽनुपूर्व्यन्तर्गतसमस्तवर्णा एव यद्यप्यभिव्यञ्जकास्तथापि चरमवर्णाभिव्यक्त एव स बोधहेतुरिति नोक्तविकल्पस्याऽप्यवसर इत्याहुः। ___ ननु वायुसंयोगानां प्रत्येकमभिव्यञ्जकत्वाभ्युपगमेऽपि गौरित्यत्र घटेन घटत्वेन च स्फोटोऽभिव्यज्यतेत्यत आह-*परन्त्विति । तथाच विलक्षणवायुसंयोगस्य गत्वप्रकारकस्फोटाभिव्यञ्जकत्वाभ्युपगमानोक्तदोष इति भावः । *अत एवेति । विलक्षणवायुसंयोगस्य तत्तद्रूपेण स्फोटाभिव्यञ्जकत्वाऽभ्युपगमादेवेत्यर्थः । *तदतिरेकास्वीकार इति* | तत्तत्संयोगादेव कत्वादिप्रकारकककारप्रतीत्यु. पपत्तौ स्फोटातिरिक्ततत्कल्पने मानाभावादिति भावः।।
ननु सरो रस इत्यादावतिप्रसङ्गस्तदवस्थ एव सत्त्वादिरूपेणाभि. व्यञ्जकवायुसंयोगानामुभयत्र तौल्यादत आह-*एवञ्चति*। *घव त्वमिति । तथा चौपाधिकभेदमादाय तस्मिन्नेव टकारत्मके घटत्वप्रकारकप्रतीतिविषयाव्यवहितत्वग्रहविषयो यथा घटपदव्यवहारवि. षयता तथा रात्मक स्फोटे सत्त्वप्रकारकप्रतीतिविषयाव्यवहितत्वग्रहे सरपदव्यवहारविषयतेति न सरात्मकस्फोटस्य रसरूपतेति भावः।
ननु तव मते गकारादिवर्णस्य नित्यस्फोटरूपतया नित्यत्वेन तद्ध्वंसाऽधिकरणक्षणाऽनुत्पत्तिकत्वविशिष्टतदधिकरणक्षणोत्पत्ति. कत्वरूपाऽव्यवहितोत्तरत्वालम्भवात् कथमुक्तप्रकारसम्भवोऽत आह-*परं त्विति* । तथाच वर्णानां नित्यत्वेऽपि तदभिव्यक्तरनित्यत्वस्य सांख्यानामपि सम्मतत्वेन तदव्यवहितोत्तरत्वस्य वर्णान्त