Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 437
________________ दर्पणसहिते वैयाकरणभूषणसारे प्रातिपदिकान्तस्य " ( पा० सू० ७ । २ । ७ ) इत्यादिभिर्धनं वनमित्यादौ नलोपाद्यापत्तेश्च (१) । ४२४ एतच्च, चरमवर्ण एव वाचकत्वशक्तिः । शक्तेर्व्यासज्ज्यतित्वे मानाभावात् । पूर्वपूर्ववर्णानुभवजन्यसंस्काराश्चरमेणार्थवीजन ने सहकारिण इति न तन्मात्रोच्चारणादर्थधीरिति वर्णस्फोटवादिनां मतान्तरस्य दूषणायोक्तम् । भ्युपगम इत्यर्थः । नलोपादीत्यादिना जश्त्वादिपरिग्रहः । तथाच समुदितानामेव तेषां वाचकत्वमभ्युपेयम् । तत्र चोक्तयुक्त्या तत्समुदायस्य वाचकत्वं निराबाधम् । स एव चाऽस्माकं पदशब्दव्यपदेश्य इति भावः । ननु प्रत्येकवर्णानां वाचकत्वस्य गौरवपराहतत्वादेवासम्भवत्समुदायस्यैव तत् सेत्स्यतीत्यादेशा वाचकाश्चेति समभिव्याहृतवर्णानां वाचकताया हेतुत्वापन्यासो विफलः । उन्मत्तप्रलपितत्वशङ्काया अवसरेणैव निरासादित्यत आह-*एतच्चेति* ॥ समभिव्याहृतवर्णानां वाचकत्वोपन्यसनं चेत्यर्थः ॥ *चरमवर्ण एवेति* ॥ प• दान्ते श्रूयमाणवर्णे एवेत्यर्थः । एवकारेण पदघटकतत्प्राक्तनवर्णव्युदासः । तत्र हेतुमाह - *शक्तेरिति ॥ स्वरूपसम्बन्धात्मिकायां बोधकारणतायां पर्य्याप्तत्वासम्भवाच्चरमवर्णादेव बोधोदयेनान्यत्र तत्सत्वे मानाभावादिति वाऽर्थः । I ननु तस्यैव वाचकत्वे तन्मात्रश्रवणादर्थबोधापत्तिरत आ ह - * पूर्वपूर्ववर्णेति ॥ तत्पघटक पूर्वपूर्ववर्णेत्यर्थः ॥ *मतान्तरे (१) नलोपाद्यापत्तेश्च । सुपः श्रवणं तु नापादितम् । समुदायात्मकप्रातिपदिकावयवत्वेन "सुपो धातु" इति लुक्सम्भवात् । न च समासग्रहणस्य नियमार्थतया सुबन्तसमुदायस्य प्रातिपदिकसंज्ञाऽ भावे सुबो लुक् न स्यादिति वाच्यम् । यस्य समुदायस्य पूर्वोभागः अर्थवत् पदं तस्य चेद्भवति तर्हि समासस्यैव इत्याकारकनियमाश्रन पूर्वभागस्य सुबन्तत्वेऽपि अर्थवत्वाभावेन नियमानाक्रान्तत यादोषात् ।

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498