________________
दर्पणसहिते वैयाकरणभूषणसारे
प्रातिपदिकान्तस्य " ( पा० सू० ७ । २ । ७ ) इत्यादिभिर्धनं वनमित्यादौ नलोपाद्यापत्तेश्च (१) ।
४२४
एतच्च, चरमवर्ण एव वाचकत्वशक्तिः । शक्तेर्व्यासज्ज्यतित्वे मानाभावात् । पूर्वपूर्ववर्णानुभवजन्यसंस्काराश्चरमेणार्थवीजन ने सहकारिण इति न तन्मात्रोच्चारणादर्थधीरिति वर्णस्फोटवादिनां मतान्तरस्य दूषणायोक्तम् ।
भ्युपगम इत्यर्थः । नलोपादीत्यादिना जश्त्वादिपरिग्रहः । तथाच समुदितानामेव तेषां वाचकत्वमभ्युपेयम् । तत्र चोक्तयुक्त्या तत्समुदायस्य वाचकत्वं निराबाधम् । स एव चाऽस्माकं पदशब्दव्यपदेश्य इति भावः ।
ननु प्रत्येकवर्णानां वाचकत्वस्य गौरवपराहतत्वादेवासम्भवत्समुदायस्यैव तत् सेत्स्यतीत्यादेशा वाचकाश्चेति समभिव्याहृतवर्णानां वाचकताया हेतुत्वापन्यासो विफलः । उन्मत्तप्रलपितत्वशङ्काया अवसरेणैव निरासादित्यत आह-*एतच्चेति* ॥ समभिव्याहृतवर्णानां वाचकत्वोपन्यसनं चेत्यर्थः ॥ *चरमवर्ण एवेति* ॥ प• दान्ते श्रूयमाणवर्णे एवेत्यर्थः । एवकारेण पदघटकतत्प्राक्तनवर्णव्युदासः । तत्र हेतुमाह - *शक्तेरिति ॥ स्वरूपसम्बन्धात्मिकायां बोधकारणतायां पर्य्याप्तत्वासम्भवाच्चरमवर्णादेव बोधोदयेनान्यत्र तत्सत्वे मानाभावादिति वाऽर्थः ।
I
ननु तस्यैव वाचकत्वे तन्मात्रश्रवणादर्थबोधापत्तिरत आ ह - * पूर्वपूर्ववर्णेति ॥ तत्पघटक पूर्वपूर्ववर्णेत्यर्थः ॥ *मतान्तरे
(१) नलोपाद्यापत्तेश्च । सुपः श्रवणं तु नापादितम् । समुदायात्मकप्रातिपदिकावयवत्वेन "सुपो धातु" इति लुक्सम्भवात् । न च समासग्रहणस्य नियमार्थतया सुबन्तसमुदायस्य प्रातिपदिकसंज्ञाऽ भावे सुबो लुक् न स्यादिति वाच्यम् । यस्य समुदायस्य पूर्वोभागः अर्थवत् पदं तस्य चेद्भवति तर्हि समासस्यैव इत्याकारकनियमाश्रन पूर्वभागस्य सुबन्तत्वेऽपि अर्थवत्वाभावेन नियमानाक्रान्तत
यादोषात् ।