SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ स्फोटनिरूपणम् । કરક रामोऽस्तीति वक्तव्ये, राम् इत्यनन्तरं घटिकोत्तरमकारोच्चारणेऽर्थबोधापच्या तादृशानुपूा एव शक्ततावच्छेदकत्वौचित्यादिति दिक् ॥ ६४ ॥ मुप्तिङन्तं पदमिति पारिभाषिकपदस्य वाचकत्वस्वीकर्तृणां मतमाहघटेनेत्यादिषु न हि प्रकृत्यादिभिदा स्थिता ॥ ति* ॥ समभिव्याहृतवर्णानामवाचकत्वे तत्समुदायरूपपदस्य सु. तरामवाचकत्वमिति यन्मतान्तरं तत्खण्डनायेत्यर्थः । उक्तमित्यस्य, मूल इति शेषः । *अर्थबोधापत्यति ॥ । वस्तुतस्तु नेयमापत्तिः ॥ उद्बोधकतत्कल्पे दूषणान्तरमप्याह*रामोऽस्तीत्यादि* ॥ समाधानस्य फलानुमेयत्वेन तादृशस्थले फलाभावेनोबुद्धसंस्काराभावादिति बोध्यम् । ननु समभिव्याहारो न समूहः । वर्णानां कामकाणामाशुविना. शिनां च तदसम्भवादत एवाव्यवहितोत्तरत्वसम्बन्धेन न, पूर्वपूर्वव. र्णस्यैवाभावात् । नाऽपि वर्णसमवेतं पदार्थान्तरं, मानाभावात् । अ. न्यथा तादृशधर्मानुगतीकृतवर्णानां वाचकत्वेनैवोपपत्तौ पदस्फोटस्य निरालम्बनतापत्तेः। पदप्रयुक्तकार्याणां वर्णेष्वेव दर्शनाति कथं पदस्फोटसिद्धिरित्यत आह-*दिगिति*॥ तदर्थस्तु वर्णसमु. दायः पदं, न वर्ण इति प्रतीतर्वर्णातिरिक्तपूर्वापरीभूततत्समुदायात्म. कपदस्वीकार आवश्यकः । अत एव पदे वर्ण इति व्यवहारोऽपि स्वरसतः सङ्गच्छते । नित्याश्च वर्णास्तेषु पौर्वापर्यश्च पूर्वपूर्ववर्णा नुसन्धानस्याव्यवहितोत्तरत्वसम्बधेनोत्तरवर्णानुसन्धाने वाक्य. स्फोटवक्ष्यमाणरत्यिा सत्त्वात्तेन विषयकानुसन्धानविशिष्टानुसन्धा. नविषयत्वरूपमिति नानुपपत्तिरिति । यथा चैतत् तथा वाक्यस्फोटनिरूपणे वक्ष्यत इति । तथाच वर्णसमुदायो वाचक इति पदस्फो. टपक्षे पर्यवस्यति ॥ ६४॥ ___ *पारिभाषिकति* ॥ शास्त्रकारसङ्केतितेत्यर्थः। पूर्व तु प्रकृति. घटकवर्णसमुदायरूपस्य प्रत्ययघटकवर्णसमुदायरूपस्य च तस्य वा. ५४
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy