SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४५६ दर्पणसहिते वैयाकरणभूषणसारे वस्नसादाविवेहापि सम्ममोहो हि दृश्यते ॥ ६५ ॥ घटेनेसादौ 'घंटे' इति प्रकृतिः 'न' इति प्रत्ययः, 'घ' इति प्रकृतिः 'एन' इति प्रत्यय इति विभागस्य, "सर्वे सर्वप. दादेशा" इति स्वीकारे विशिष्य(१) प्रकृतिप्रत्यययोज्ञानासम्भ. चान्न वाचकत्वामित्यर्थः । वैयाकरणैर्विभागः सुज्ञेय इत्यतो दृष्टान्तव्याजेनाह-वस्नसादाविति ॥ "बहुवचनस्य वस्नसौं" (पा० सू० ८।१।२१) इति समुदायस्याऽऽदेशाविधानानात्र तद्विभागः सम्भवतीत्यर्थः ॥ ६५ ॥ चकतोक्ता । इदानीन्तूभयसमुदायस्यैव सेति भेदः । घट् इति प्रकृ. तिरेनेति प्रत्यय इति प्रकृतिप्रत्ययोर्विभागस्य शानासम्भवादिति यो. जनीयम् ॥ *सर्वे सर्वपदेति* ॥ वर्णनित्यताप्रतिपादकं भाध्यमेतत् । वस्नसादेरपि पक्षवादाह-*व्याजेनेति ॥ तथाच निश्चितसाध्य. वत्त्वस्यैव दृष्टान्तत्वे तन्त्रत्वेन तस्य पक्षभिन्नत्वाभावेऽपि न दृष्टान्त. त्वमनुपपन्नमिति भावः ॥ तत्र वस्नसादिस्थले ॥ विभागः-तनिर्णयः । अस्य वैयाकरणानामपीति शेषः॥ ___ परे तु आमादौ प्रत्ययत्वस्य दृष्टत्वेन वामित्यादावामो व इत्या. देसादेः प्रत्ययत्वमितरांशस्य प्रकृतित्वमनुमातुमशक्यमित्युक्तरीत्या न प्रकृतिप्रत्ययसमुदायरूपपदस्य वाचकत्वसिद्धिः । घटनेत्यत्र तु नशब्दस्य टादेशत्वं भाष्यकृतैवोक्तमिति न तत्र विभागासिद्धिः । 'अजर्घा, अचकात्' इत्यादी त्वगत्या "शिष्यमाणं लुप्यमानार्थाभिधायि" इति न्यायात् प्रकृतेरेव वाचकता। अस्तु वा तत्रापि लु प्रयत्यानुसन्धानाद् बोधः । प्रकृतेः स्वार्थविशिष्टप्रत्ययार्थे लक्षणा वा । 'सर्वे सर्वपदादेशा' इत्यपि वर्णानित्यत्ववादिनां मते दुरापा. स्तमित्याहुः ॥ ६५॥ - (१) विशिष्येत्यादि । धर्णयोरादेश इति पक्षे एकाररूप आदेशः। सच पूर्वायवो वा परावयवो वेति संशयाहितस्तत्संशयः सम्भव. ति। "सर्वे सर्वपदादेशा" इति पक्षे तु वस्नसादाविव सम्प्रमोहाद्वि. भागवानमेव न सम्भवतीति भावः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy