________________
स्फोटनिरूपणम्।
४२३ सनश्च लाघवात् काल्पते लकारे कळदिवाचित्वं कल्पितमा. दायेत्युक्तम् ।। ६३॥
इति वर्णस्फोटनिरूपणम् ॥
अथादेशा वाचकाश्चेत् पदस्फोटस्ततः स्फुटः ॥६॥
एवमादेशानां वाचकत्वे सिद्ध पदस्फोटोऽपि सिद्ध एवे. त्याह-अथेत्यादि ॥ आदेशास्तिब्बिसर्गादयः । अयं भावः । समभिव्याहृतवर्णानां वाचकत्वे सिद्धे तादृशवर्णसमभिव्याहार• रूपपदस्य वाचकता सिद्ध्यति । प्रतिवर्णमर्थस्मरणस्यानुभववि. रुद्धत्वात् प्रसेकं वर्णानामर्थववे प्रातिपदिकत्वापत्तौ "नलोपः
कत्वे आदेशिशक्तिप्रतिपादकलाकर्मणीत्यादिसूत्राणां वैयर्थ्यमत माह *लः कर्मणीति* ॥ “उक्तमिति * ॥ आख्यातशक्तिनिरूपणावसर इति शेषः । एवश्च प्रयोगे श्रूयमाणप्रकृतिप्रत्ययघटकवणेषु शक्तिर्वर्णस्फो. टमिति पर्यवसनम् ॥ ६३ ॥
इति भूषणसारदर्पणे वर्णस्फोटनिरूपणम् ॥ १३ ॥
पदस्फोटनिरूपण उपजीव्योपजीवकभावस्याऽपि सङ्गतित्वं सु. चयन् मूलमवतारयति-*एवमिति*॥ उक्तरीत्येत्यर्थः । आदेशाना; मपि केषाश्चित प्रयोगान्तर्गतत्वादाह-*तिब्विसर्गादय इति* ॥ प्रयो गान्तर्गतवर्णा इति यावत् । ननु ताशयावद्वर्णानां वाचकत्वे, कथं पदस्फोटसिद्धिरतो भावार्थमाह-*अयमिति* ॥ समभिव्याहृतं तूक्तार्थम् ।। *सिद्ध इति* ॥ आनुपूर्वीविशिष्टतावतां वर्णानामवाच. कत्वे आनुपूर्वीरूपपदस्य वाचकत्वाशा दुराशेति भावः ।
ननु समुदायस्य प्रत्येकानतिरिक्तत्वेन वाचकतायाः प्रत्येकवणे विश्रामो वाच्यस्तथाच कथं समुदितताशवर्णरूपपदस्य वाचकतेत्यतः प्रत्येकवर्णाचकतां निरस्यति-*प्रतिवर्णमिति* ॥ *अनु. भवविरुद्धत्वादिति ॥ घटशब्दादमुमर्थ प्रत्येमीत्येव प्रतीतेरित्यर्थः । साधकान्तरमप्याह-*प्रत्येकमिति ॥ *अर्थवत्त्वं इति* ॥ तद