SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४२२ दर्पणसहिते वैयाकरणभूषणसारे स्तु, “कर्तरि कृत्" (पा० सू० ३ । ४ । ६७ ) इत्यनुशास. नादिति शङ्मयम् । स्थान्यर्थेन निराकाङ्कतया शानजादौ कर्तरी. त्यस्याप्रवृत्तेः । अन्यथा घनादावपि प्रवर्तेत ॥ १२ ॥ देवदत्तः पचमान इत्यादिसामानाधिकरण्यानुरोधाच्छानचः कर्ता वाच्यः स्यादित्याशङ्याहतरबाद्यन्ततिक्ष्वस्ति नामता कृत्स्विव स्फुटा॥६३॥ नामार्थयोरभेदोऽपि तस्मात्तुल्योऽवधार्य्यताम् ॥ पचतितरां मैत्रा, पचतिकल्पं मैत्र इत्यादिषु नामार्थत्वाभे दाऽन्वययोः सम्भव एवेति कर्तृवाचकता स्यादिति भावः । न च पचतिकल्पमित्यत्र सामानाधिकरण्याऽनुरोधात् कर्तरि ल. क्षणा, पचमान इत्यत्राप्यापत्तेरिति(१)। लः कर्मणीत्यनुशा. व तदुभयशक्त्यैव कर्तृलाभः । कृत्याश्रयस्यैव कर्तृत्वादिति भावः ॥ *अन्यथेति ॥ अनाकालेऽपि शास्त्रप्रवृत्तावित्यर्थः। शक्ततावच्छे. दकभेदस्य तत्रापि सत्त्वादिति भावः ॥ १२॥ *सामानाधिकरण्यानुरोधादिति* ॥ शानचः कृतिवाचकत्वे सर्वानुभवसिद्धाभेदान्वयवाधानुपपत्तेरित्यर्थः । लडादेशत्वबोधन. फलं धात्वर्थ वर्तमानत्वप्रतीतिरेवेति बोध्यम् ॥ *पचतिकल्पमिति* इदश्च स्वाद्यन्तं नामेति मतमनुसृत्य ॥ 'सत्वप्रधानानि नामानि' इतिनिरुक्ताद् द्रव्यविशेष्यकबोधजनकत्वं नामत्वम् । तदेव च ना. मायोरिति व्युत्पत्तिघटकम् । अत एव निपातार्थस्य भेदाऽन्वय इति मतेनेदं दूषणमिति तु परे । लक्षणेत्यस्य लस्यति शेषः। *आपत्तरिति* ॥ नच सा तवेष्टेति भावः । नन्वादेशानां वाच (१) आपत्तेरिति । नच शानचोऽन्यत्र शक्त्यनिर्णयेन शक्यस. म्बन्धरूपा लक्षणा न सम्भवतीति शङ्ख्यम् । प्रथमान्तपदासमभि. ध्याहृताख्यातवदितरासमाभिव्याहृतपचमान इति प्रयोगे शानचोऽपि भावनायां शक्तिनिर्णयसम्भवादिति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy