SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ स्फोटनिरूपणम् । ४२१ विनिगमनाविहात् प्रयोगान्तर्गता वर्णा वाचका इति सिद्ध्यतीति (१) भावः । अपि च लकारस्यैव वाचकत्वे कृत्तिङोः कर्तृ ( २ ) भावनावाचकत्वव्यवस्था त्वत्सिद्धान्तसिद्धा न स्यादित्याह - किश्चेति ।। आदेशानां वाचकत्वे च तिङत्वेन भावनायां, शानचादिना कर्त्तरि शक्तिरित्युपपद्यते विभाग इति भावः । न च शानजादौ कृतिर्लकारार्थः, आश्रयः शानजर्थ इस नाविरहादिति !! न च वर्णानां बाहुल्यमेव विनिगमकम् । उक्तानुपूर्व्यास्तदनुगमकत्वादिति भावः । वस्तुतस्तु समभिव्याहारस्य वाचकत्वे तत्यटकनानावर्णानामवच्छेदकतायां गौरवम् । वर्णानां काचकत्वे तुक्तानुपूर्व्या एकस्या एव तत्त्वमिति लाघवस्यैव विनिंगमकत्वमिति बोध्यम् । ननु प्रयोगान्तर्गतवर्णस्मारितवर्णत्वावच्छेदेन वाचकत्वसिद्धौ - प्रकृतायां वाचकत्वाभावसाधनाय भू+ल् इत्यतो भवनक्रि.याकर्त्तृबोधापादनमनुचितम् । तादृशलकारस्य प्रयोगान्तर्गतवर्णास्मारितत्वात् । तथाच नोक्तयुक्तिः समभिव्याहारस्य वाकत्वसा•धिका । नाप्यत्र तद्धेतुन्यायावकाशः । समभिव्याहारस्य लवाचकताग्रहोपयोगितया शाब्दबोधे हेतुत्वेऽपि तद्वाचकतायां मानाभावेन तेन तदन्यथासिद्ध्यसम्भवात् । लकारस्य वाचकत्वे त्वनुशासनस्यैव मानत्वादित्यपरितोषान्मूलमवतारयति -*अपिचेति ॥ *न स्यादिति ॥ स्थानिनो लकारस्योभयत्रैक्यादिति भावः । नव्यनैयायिकनये तु नेयमापत्तिः । तैः प्रयोगान्तर्गततिबादीनामेव वाचकताया अभ्युपगमात् । धातुप्रत्ययलोपस्थले तत्तदर्थबोधोपपादनं तूभयोः समप्रयत्नकमित्यवधेयम् । *इत्यस्त्विति ॥ तथा (१) अत्र समभिव्याहृततावद्वर्णवृत्तिर्वाचकतेत्यभ्युपगमान्न तद्धटकैकादिवर्णात्तत्तदर्थबोधापत्तिरिति बोध्यम् । (२) कर्तृभावनेति । कृतः कर्तृवाचकत्वं तिङो भावनावाचकत्व - मिति विभागो न स्यादित्यर्थः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy