SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे किञ्च तद्धेतुन्यायत इति ॥ लकारस्य बोधकत्वे, 'भू-ल' इत्यतोऽपि बोधापत्तिः स्यात् । तादृशबोधे भवतीति समभिव्याहारोऽपि कारणमति चेत् तह्यविश्यकत्वादस्तु तादृशसमभिव्या'हारस्यैव वाचकत्वशक्तिः । अन्यथा लकारस्य वाचकत्वं समभिव्याहारस्य कारणत्वञ्चेत्युभयं कल्प्यमिति गौरवं स्यात् । तथाच तादृशसमभिव्याहारः समभिव्याहृता वर्ण वेयत्र ४२० , णानां नैरर्थक्यमिति सिद्धान्तव्याकोपात् । किञ्चाऽऽनयनादिव्यवहा रस्य लोडाद्यन्तप्रयोगं विनाऽसम्भवेन तादृशप्रयोन्तर्गतवर्णानां तेन - तत्वासिद्धावपि तद्रहितवाक्यान्तर्गतवर्णेषु वाचकत्वमनुशासनेनैवे-ष्टव्यम् । तथाच तत्रादेशिनां वाचकत्वसिद्धावन्यत्राप्यादेशिषु सा - कल्पयेत्यस्वरसादाह- # किश्चेति ॥ * तद्धेत्विति ॥ "तद्धेतोरेव तत्त्वे किं तेन" इति न्यायाकारः । लाघवमूलकश्चायं न्यायः । उभ योर्हेतुत्वे गौरवात्तं सङ्गमयति-*लकारस्येति ॥ *बोधापत्तिरि-ति* ॥ भवनकर्तृबोधापत्तिरित्यर्थः । न केवलेति न्यायात् केवललकारस्य प्रयोगानर्हत्वाद् 'भू' इत्युक्तम् । लकारदशायां शपोऽसम्भवान्न भवतीत्युपात्तम् । तथाच भवतीत्यत्रानुसहिताल्लुकाराद्यथा कर्त्तृबोधस्तथा प्रत्यक्षश्रुतलकारादपि कर्त्तृबोधापत्तिरिति भावः ॥ न चासाधुत्वज्ञानं प्रतिबन्धकम् । शक्तत्वरूपसाधुताया अपि सत्त्वादपभ्रंशादपि बोधोदयेन तदीयज्ञानस्याप्रतिबन्धकत्वाश्चेति 'भावः ॥ *तादृशेति* ॥ आपादितकर्त्तृबोधे इत्यर्थः ॥ *समभिव्याहार इति ॥ पूर्वापरीभावापन्नवर्णसमुदाय इत्यर्थः । आवश्यकत्वात्तं विना लकारेणाऽपि बोधाजनेनोक्तसमभिव्याहारस्यापेक्षत्वादित्यर्थः ॥ *वाचकत्वशक्तिरिति ॥ अर्थबोधकत्वरूपा शक्तिरित्यर्थः । तथाचाप्राप्तकालता वर्णस्फोटोपयोगित्वान्न स्यादिति भावः । वाचकस्वानभ्युपगमे आदेशिशक्तिवादिमते गौरवं प्रदर्शयति अन्यथेति । उक्तसमभिव्याहारस्य वाचकतानभ्युपगमे इत्यर्थः । मन्वेतावता समभिव्याहारस्य वाचकत्वमायातं न प्रयोगान्ततधातुप्रत्ययघटकानां वर्णानामत आह्-तथाचेति* ॥ *विनिगम
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy