SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ स्फोटनिरूपणम् । -४१९ च्छया भिन्नानामभ्युपगमात् , कः शक्तः को नेति व्यवस्थाना. पत्तेश्च । सर्वेषां शक्तत्वे गौरवं, व्यभिचारश्चास्येव । आदेशानां प्रयोगान्तर्गततया नियतत्वाद् युक्तं तेषां शक्तत्वम् । तथाचादे. शिस्मरणकल्पना नेति लाघवम् । साधकान्तरमाह-व्यवहृतेरिति ॥ व्यवहारस्तावच्छक्तिग्राहकेषु मुख्यः । स च श्रूयमाणतिङादिष्वेवेति त एव वाचका इत्यर्थः । स्थेति* । इदमवे वाचकमिति निर्धारणाऽनुपपत्तेरित्यर्थः । अनु. शासनस्य पूर्वत्रापि सस्वादिति भावः । सर्वेषामित्यस्य विनिगमका. भावादित्यादिः । ननु तथाप्यादेशापेक्षयाऽऽदेशिनामल्पत्वेन तत्प्र. . युक्तलाघवादादेशिवेव पाचकत्वं सेत्स्यतीत्यत आह-व्यभिचा. रश्चति* ॥ ननु विनिगमनाविरहादेवादशिनां वाचकतासिद्धिरत आह-*आदेशानामिति* ॥ तथाच गौरवादिदोषस्य तत्परिहारस्य चोभयोः साम्येऽप्यादेशिस्मरणकल्पनाविरहप्रयुक्तलाघवसहकृतप्रयोगनैयत्यमेवादेशानां वाचकत्वे विनिगमकमित्याखण्डलार्थः। ननु बोधकतायाः शक्तित्व एव भवदुक्तव्यवस्थोपपत्तिः। न च बोधकत्वस्य शक्तित्वं तन्मतसिद्धं, किन्तु सङ्केतस्य पदार्थान्तरस्य वा तत्वम् । तथाचानुशासनेन यत्र सा प्रतिपाद्यते तत्रैव तदङ्गीकारेण कथं तिबादिषु तत्सिद्धिः। स्मरणकल्पनागौरवं तु प्रामाणि. कत्वादपि न दुष्टमित्यस्वरसात् प्रयोगे धूयमाणानां तिबादीनां वाचकत्वं साधकान्तरमुपन्यस्यतीत्याह-*साधकान्तरमिति* ॥ *मुख्य इति* ॥ मुख्यत्वं च तस्मिन् शक्तिग्राहकान्तरनिरपेक्षत्वम् । व्याकरणादिना शक्तिग्रहे नियमेन तद्ग्राहकान्तरापेक्षणात् ॥ *स. चेति* ॥ व्यवहारजन्यशक्तिग्रहश्चेत्यर्थः ॥ *तिङादिम्वेवेति* ॥ व्यवहारेण पूर्ववाक्ये तद्ग्रहेऽप्यावापोद्वापाभ्यां पश्चात्तघटकति. डादिवेव तनिर्णयादिति भावः। ... ननु प्रयोगान्तगर्तवणेषु सर्वसिद्धव्यवहारेण शक्तिग्रहे घटमानयेत्याद्यन्तर्गतशबादीनामपि वाचकत्वापत्तिः। न च सेष्टा । विकर
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy