SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४१८ दर्पणसहिते वैयाकरणभूषणसारे त्वौचित्यात् । अव्यभिचाराच्च । आदेशानां भिन्नतया परस्परव्यभिचरित्वात् । लः कर्मणीत्याधनुशासनानुगुण्याञ्च । न ह्यादे. शेष्वर्थवत्ताबोधकमनुशासनमुपलभामहे इत्याहुः । तान् स्वसाधकयुक्तिभिर्निराचष्टे व्यवस्थितेर्व्यवहतेस्तडेतुन्यायतस्तथा ॥ किचाख्यातेन शत्राद्यर्लडेव स्मार्यते यदि ॥ ६२॥ कथं कर्तुरवाच्यत्ववाच्यत्वे तद्विभावय ॥ व्यवस्थानुरोधात् प्रयोगान्र्तगता एव वाचका, न तु तैः स्मृता इत्यर्थः । तथाहि पचतीसादौ लकारमविदुषो बोधान्न तस्य वाचकत्वम् । न च तेषां तिक्षु शक्तिभ्रमाद् बोधः । तस्य भ्रमत्वे मानाभावात् । आदेशिनामपि तत्तवैयाकरणैः स्वे. *अव्यभिचाराश्चेति ॥ लत्वावच्छिन्नशक्तिग्रहस्य कृतिबोधात पूर्व नियमेन सत्वात् तिबादीनां शक्यतावच्छेदकत्वे तु तदवच्छिन्न. शक्तिग्रहं विनाऽपि तसादिशक्तिग्रहवत् कृतिबोधेनाऽऽदेशवाचकता. वादिमते व्याभिचारो दुर्वार इति भावः। : ननु कार्य्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशानेयमापत्ति. रत आह-*लः कर्मणीतीति* ॥ *इत्याहुरिति* ॥ तथाचादेशाना. मेव वाचकत्वं सप्रमाणमिति तद्भावः ॥ *स्वसाधकेति* ॥ स्वम. तपरिपोषकेत्यर्थः॥ व्यवस्थितरित्यादिपञ्चम्यन्तत्रयस्य पूर्वकारिकास्थबोधकपदार्थेऽन्वयं प्रदर्शयन्नादौ व्यवस्थितरित्येतद्विवृणोति*व्यवस्थानुरोधादिति* ॥ प्रमाणेन पदार्थनिर्धारण व्यवस्था, तदन्यथानुपपत्तरित्यर्थः ॥ *शक्तिभ्रमादिति* ॥ लत्वावच्छिन्ननि. ष्ठवाचकत्वस्य तत्रारोपादित्यर्थः॥ *मानाभावादिति* ॥ विषयबा. धस्यैव भ्रमत्वे तन्त्रतया प्रकृते बोधकत्वशक्तस्तत्राबाधादिति भावः। नन्वादेशानां बहुत्वमेव तत्र शक्तिस्वीकारे बाधकमत आह*आदेशिनामपीति । वैयाकरणः-शाकटायनप्रभृतिभिः-*व्यव.
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy