SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ स्फोटनिरूपणम् । ४१७ 1 तासंशये आवश्यकीति सुचनायोक्तं- कोटिरिति । अन्येषाम् – नैयायिकानाम् । तैः “लः कर्मणि” (पा० सू० ३ । ४ । ६९) “स्वौजसमौट्” ( पा० सू० ४ । १ । २ ) इत्यादिविहितप्रत्ययानामेव वाचकत्वम् । तिब्विसर्गादीनां त्वादेशिस्मृतिद्वारा बोधकत्वमेव लिपिवदित्यभ्युपगमात्। तथाच साध्वन्तर्गतवर्णस्मारितवर्णत्वावच्छेदेन मतभेदेनोभयसाधनान्नोक्तदोष इति भावः । यथाश्रुतमूलोक्तविप्रतिपत्तिमनुमृत्याह-*साधुशब्द इत्यादि* । ननु साध्वन्तर्गतवर्णानां बोधकत्ववाचकत्वसिद्धिरत साधनेऽपि न आह- - * बोधका इति* । *तेषामेवेति । बोधकत्वस्यैवेत्यर्थः । *प्रागिति । शक्तिनिरूपणावसर इत्यर्थः । बोधकत्वसिद्धौ च तदन्यथानुपपत्त्या पदार्थान्तररूपा शक्तिरपि सिद्ध्येत्, तदभावे तु साऽपि नेति वाचकत्वसामान्याभावसिद्धिरिति भावः ॥ ६१ ॥ वाचका नैयायिकमतं दूषयितुमुपन्यस्यति-ये त्विति । वाचकत्वाभावे प्रयोजकमाह - * तेषामिति । बहुत्वेनेत्युपलक्षणमनुगमकधर्मा: भावस्यापि तित्वसुपत्वादीनामेकवचनत्वादिवदनुगमकत्वासम्भ वात्तित्वाद्युपस्थितिं विनापि कृत्याद्यर्थोपस्थितेर्व्यभिचारेण शक्त· तानवच्छेदकत्वाच्चेति बोध्यम् । ननु तिबाद्यादेशिनामपि तत्तदनुबन्धभेदेन नानात्वानोक्तरीत्या तेषां वाचकत्वमत आह - * एधामिति । अनुप्रयुज्यमानधातूचरैधादिनाऽपि तदर्थबोधोपपत्तेर्नोक्तदोषोऽत आह - *ब्रह्मेति* । आदिना 'अद्य तिष्यो, लिड, धुक्' इत्यादिसंग्रहः । लुगादेरित्यादिना, लुब्लोपयोः सः। ०तैरिति* आदेशैरित्यर्थः । उक्तदोषमाशङ्क्याह*लत्वस्येति* । *जातिरूपतयेति । लडादिलेषु ल - इत्यनुगत• प्रतीत्या तत्सिद्धिरित्यभिप्रायः । नव्यास्तु- शक्ततावच्छेदकतया न तत्सिद्धिः। सर्वलकारलाधारणत्वस्यातिप्रसक्तत्वाद्दशलकारमात्रवृत्तेस्तु शक्तिग्रहात् पूर्वमनुपस्थितेः पचन्नित्यादौ कृतिबोधापत्त्या तस्य शक्तत्वाऽवच्छेदकत्वासम्भवाश्च तिप्त्वतस्त्वादिकमेव तदवच्छेदकमित्याहुः । तथाचोक्तविप्रतिपत्तौ प्राचीनैः सह विवाद एवेति बोध्यम् । ५३
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy