________________
४१६ दर्पणसहिते वैयाकरणभूषणसारे त्तिः । विधिकोटिरन्येषां, नेति वैयाकरणानाम् । साधुशब्दे 'पचति' 'राम' इत्यादि प्रयुज्यमानेऽन्तर्गतास्तिविसादय एव, बोधकाःवाचकाः। तेषामेव शक्तत्वस्य प्राग्व्यवस्थापितत्वात् । नतु तैः स्मृताः लादयः स्वादयश्चेत्यर्थः ॥ ६१ ॥ __ ये तु प्रयोगान्तर्गतास्तिबिसर्गादयो न वाचकाः। तेषां बहुत्वेन शक्त्यानन्त्यापत्तेः एधाश्चक्रे ब्रह्मेत्पादावादेशलुगादरभावरूपस्य बोधकत्वासम्भवाच्च । किन्तु तैः स्मृता लकाराः स्वादयश्च वाचकाः । लत्वस्य जातिरूपतया शक्ततावच्छेदक
शानं निश्चयात्मकमेवेति प्राचीनप्रवादेन संशयजनकत्वस्य धाक्ये असम्भवात् ।
वस्तुतस्तु संशयजनकवाक्यत्वमेव विप्रतिपत्तित्वम् । तत्तह. भावसहचरितधर्मवद्धर्मिज्ञानस्येव समानाऽनेकोतिसूत्रेण विप्रतिपत्ते. रप्याहत्यैव संशयहेतुत्वोत्कीर्तनादित्यवधेयम् । मूले असाधुशब्दा. न्तर्गतवर्णवाचकताविचारस्याप्रस्तुतत्वं मत्वाह-*साध्विति । अत्र साध्वन्तर्गतवर्णत्वसामानाधिकरण्येन वाचकत्वादिसाधने तद्धाक्यस्य विप्रतिपत्तित्वाऽसम्भवः । नैयायिकैरपि साध्वऽन्तर्गतानां केषाश्चिद् वाचकत्वाभ्युपगमात् । तादृशवर्णत्वव्यवच्छेदेन वाच. कत्वादिसाधने तु वैयाकरणानां परेषां विकरणेषु बाधश्चेति आह*तत्स्मृता इति ।
ननु यथाश्रुते साधुशब्दान्तर्गता पाचकास्तदन्तर्गतवर्णस्मा. रिता नेत्यर्थलाभादेतद्वाक्यस्य विभिन्नधर्मिबोधकत्वाद्विप्रतिपत्ति. स्वस्यैवासम्भवः । एकधर्मिकविरुद्धकोटिकसंशयजनकस्यैव तत्त्वा. दतो व्याचष्टे सारे- साधुशब्दानन्तर्गता इति* । साध्वन्तर्गतवर्णस्मारिता इत्यर्थः। यथाश्रुते साध्वनन्तर्गतविपरीतानुपूर्वीकवानां वाचकत्वस्य केनाप्यनभ्युपगमादू बाधसिद्धसाधनयोरापत्तेः। तत्स्मारितत्वं च शास्त्रबोधितादेशादेशिभावनिमित्तनिमित्तिभावा. न्यतरसम्बन्धेन । तेन 'अस्यापत्यम्' 'इरियान्' त्यादीनां सग्रहः।
*विधि कोटिरिति* । समुघयव्यावृत्ता कोटिताख्या विषय