SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ स्फोटनिरूपणम् । . वाक्यस्फोटोऽतिनिष्कर्षे तिष्ठतीति मतस्थितिः ॥ साधुशब्देऽन्तर्गता हि बोधका न तु तत्स्मृताः ॥६१॥ यद्यपि वर्णस्फोटः,पदस्फोटा, वाक्यस्फोटः, अखण्डपदवाक्यस्फोटो, वर्णपदवाक्यभेदेन त्रयो जातिस्फोटा इत्यष्टौ पक्षाः सिद्धान्तसिद्धा इति वाक्यग्रहणमनर्थकं दुरर्थकञ्च, तथापि वा. क्यस्फोटातिरिक्तानामन्येषामप्यवास्तवत्वबोधनाय तदुपादानम् । एतदेव ध्वनयति-अतिनिष्कर्ष इति ॥ इति मतस्थितिवैयाकरणानां महाभाष्यकारादीनाम् । . तत्र क्रमेण सर्वान् तान् निरूपयन् वर्णस्फोटं प्रथममाहसाधुशब्द इति । साधुशब्दानन्तर्गता वाचका न वेति विप्रतिप शुविनाशिनानावर्णाऽऽत्मकतयाऽस्थिरत्वेन प्रत्यक्षतया तत्र शक्तिप्रहस्य कथमप्यसम्भवेन तत्प्रतिपादकस्यास्य शास्त्रस्याप्रामाण्य. प्रसङ्ग इत्याशङ्कानिराकरणाय स्फोटनिरूपणमित्याह *सिद्धान्तनिष्कर्षमिति* तथाचोपोद्धातसङ्गतिरत्रेत्यवधेयम्। तत्तन्मतनिराकरणं तु मूल एव सुव्यक्तम् । अष्टानां स्फोटानामाकर. सिद्धतया तव्यावृत्त्यालाभ इत्याशयेनाह- अनर्थकमिति* । निप्रयोजनकमित्यर्थः-* दुरर्थकमिति । तदुपादाने वाक्यातिरिक्ता. नामसंग्रहापत्तेरिति भावः । समाधत्ते-*तथापीति । अन्येषां वणोदिपश्चस्फोटानामित्यर्थः ।। तत्र स्फोटत्वं स्फुटत्यभिव्यक्तीभवत्यर्थोऽस्मादिति व्युत्पत्त्यार्थ. प्रकाशकत्वं, प्रकाश्च ज्ञानम् । तथाचार्थनिष्ठविषयताप्रयोजकशक्तिमत्वं पर्यवस्यति वर्णस्यैव तत्वाभ्युपगमे वर्णस्फोटः। पदादीनां त. स्वाभ्युपगमे तु पदादिस्फोट इति व्यवहारः-*अवास्तवत्वेति । वर्णस्फोटादीनामाकाङ्क्षानिवर्तकत्वाभावादवास्तवत्वं शास्त्रीयप्रकियानिहाय परं सिद्धान्ते तत्स्वीकारः। पारमार्थिकत्वं तु वाक्य. स्फोटस्यैवेति भाव:-*विप्रतिपत्तिरिति*। संशयीययावत्कोट्युः पस्थापकं वाक्यामित्यर्थः । न तु संशयजनकं वाक्यमव सा। परोक्षं
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy