________________
४१४ दर्पणसहिते वैयाकरणभूषणसारे
॥ अथ स्फोटनिरूणम् ॥ सिद्धान्तनिष्कर्षमाह
तथाच तत्तत्पदे तत्तत्पदपूर्वापरीभावरूपसमभिव्याहारः सेति फल. ति । तां विना यद्यप्युक्तानाकाङ्ग्रे. कर्मत्वपदेऽम्पदत्वभ्रमदशायर्या घटिया कर्मतेति बोधोदयेन तज्ज्ञानं हेतुर्न तु स्वरूपसती सा।।
नच जनितान्वबोधाद्वाक्वात् पुनरपि तादृशबोधापत्तिरुक्ताका. ड्रायास्तदानीमप्यविकलत्वादिति वाच्यम् । प्रकृतान्वयबोधसमा. नाकारबोधानुपहितत्वस्यापि स्वरूपसत आकाङ्गत्वेन जनितान्वयः बोधस्थले तदभावानापत्त्यसम्भवात् । तात्पर्य्यविषयत्वरूपप्रकृतत्वे. न बोधविशेषणाचा । बोधद्वयं जायतामिति तात्पर्यसत्त्वेन जनिता. न्धये बोधस्य द्वितीयबोधे निराकाङ्कत्वं स्वसेमानेत्युक्तेश्च न जनि. तावान्तरबोधस्य महावाक्यार्थबोधे तत्त्वम् । अत एव
"अयमेति पुत्रो राक्षः पुरुषोऽपसार्यताम्" इत्यादौ राज्ञः पुरुषेण सहान्वयबोधजनने सर्वदा निराकारत्वम् ।
नव्यास्तु-यत्पदस्य यत्पदव्यतिरेकप्रयुक्ततात्पर्यविषयीभूतान्वयाननुभावकत्वं तेन सह तस्याकाङ्क्षा । 'अयमेति पुत्रो राज्ञः पुरुष' इति वाक्ये राजपुरुषसंसर्गप्रतीतीच्छयोश्चरिते राक्ष इत्यस्य पुरुषेण साकाङ्गत्ववारणायान्वयबोधे तात्पर्य्यविशेषणम् पुरुषेणान्वये तात्पर्यसत्वे तु साकांक्षत्वमप्येवञ्च न तात्पर्यशानस्य शाब्दबोधे पृथग्धेतुता । अगृहीताऽर्थतात्पर्य के निरुक्ताऽऽकालाशानाभा. वादेवान्वयबोधापत्त्यभावादित्याहुः।
एवश्व शाब्दबोधात् प्रागवश्यक्लप्ततत्तत्पदसमभिव्याहाररूपाकालयवान्वयरूपवाक्यार्थभानोपपत्तौ वाक्यस्य तत्र शक्तिनिष्प्रमा. णेति नैयायिका वदन्ति ।
मीमांसकादयस्तु वाक्यस्य तत्र लक्षणैव, न तु तत्र शक्तिः रिति तन्मतं खण्डयितुं स्फोटनिरूपणमित्याशयेन मूलमवतारयति*सिद्धान्तेति । यद्वा ननूक्तव्याकरणस्य प्रकृतिप्रत्ययेषु तत्तदर्थबोधकत्वशक्तिप्रतिपादकत्वमनुपपन्नम् । प्रकृतिप्रत्ययानां क्रमिका