________________
स्फोटनिरूपणम् ।
४१३
श्वानुमितित्वस्यैव तदवच्छेदकत्वस्याङ्गीकरणीयत्वात् । अतो बाधा. भावस्य स्वातन्त्र्येणैव शाब्दबोधं प्रति हेतुता वाच्या । तत्र चोक्त. गौरवेण संसर्गरूपयोग्यताज्ञानस्यैव हेतुत्वमुचितम् । __अपि च शाब्दबोधे तद्वदन्योन्याभावतदभावव्याप्यवत्ताशानादीनां प्रतिबन्धकत्वकल्पनाऽपेक्षया लाघवाद् योग्यताज्ञानस्यव हेतु. त्वमुचितम् । किञ्च, पयसा सिञ्चतीतिशाब्दसामग्रीकाले सेकः पयः करणकत्वाभाववानिति मानसवारणाय तत्र शाब्दबोधसामग्याः प्रतिबन्धकत्वकल्पने गौरवम । मन्मते यत्र योग्यताज्ञानस्यावश्यक. तया विपरीतज्ञानोत्तरप्रत्यक्षे विशेषदर्शनस्य हेतुतया तदभावादेव तद्वारणात् । विशेषदर्शनसत्त्वे तु तदभावव्याप्यवत्तानिर्णयरूपप्रतिबन्धकत्वेन शाब्दसामग्या एवाभावेन तथा सानसे इष्टापत्तेः।
नच निर्णयं प्रत्येव विशेषदर्शनस्य हेतुतया शाब्दसामग्रीकाले मानससंशयघारणाय शाब्दसामग्याः प्रतिबन्धकत्वे कल्पनीये सं. शयत्वमनिवेश्य सेकत्वाऽवच्छिन्नविशेष्यकपयःकरणत्वाऽभावप्रकरकमानसत्वमेव तत्प्रतिबध्यतावच्छेदकमिति वाच्यम् । सेकत्वाव. च्छिन्नविशेष्यकपयःकरणकत्वप्रकारकमानसे शाब्दसामग्रीप्रतिब. Fधकत्वान्तरस्य कल्प्यनया तेनैव संशयवरणे तत्संशये प्रतिबन्धकस्वान्तराऽकल्पनात् ।
न च विपतिज्ञानोत्तरप्रत्यक्षे विशेषदशनस्य हेतुत्वसिद्धावेव योग्यताज्ञानस्य हेतुत्वसिद्धिरिति वाच्यम । गुरुभूतशाब्दसामग्रीप्रतिबन्धकत्वान्तरस्य कल्पनाया एवोचितत्वादनयैव विशेष्टसाधनत्वादिज्ञानानां प्रवृत्ती हेतुतासिद्धिरित्यलंपरमतानुवर्णनेन ।
घटः कर्मत्वमित्याधाराधेयभावेनान्वये निराकाङ्क्षवाक्याद् घ. टीया कर्मतेति बोधानुदयादाकालापि सहकारकारिणी। सा च यत्पदे यत्पदसमभिव्याहारप्रयुक्तं यद्विशेष्यकयत्संसर्गकयत्प्रकारका बोधजनकत्वं तत्पदे तत्पदनिरूपिताकाला। यथा घटमानयतीत्यत्र घटपदं कर्मताविशेष्यकाधेयतासंसर्धकघटीया कर्मतेति बोधौपायका तत्पदनिरूपिताकाला। तां विना घटः कर्मत्वमित्यत्र घटपदेन ताहशबोधाजननात् । एवं धातुपदेऽप्याख्यातनिरूपिताकालाह्या । अत एवानयनं कृतिरित्यत्र नानयनानुकूला कृतिरिति बोधः । धाता. घाख्यातासमभिव्याहारात् । इयमेवाकाङ्क्षा व्याकरणेन प्रातिपाद्यते ।