________________
४१२ दर्पणसहिते वैयाकरणभूषणसारे क्यं समवायसंसर्गमादाय नाभेदाऽन्वये योग्यम् । अयोग्येऽप्येतद्धमेणान्वयदर्शनादेतज्ज्ञानस्यापि हेतुता ॥ . ननु संसर्गस्य वाक्यार्थत्वेन तेबाधात् प्रागनुपस्थित्या कथं सद्बोधस्य तत्र सत्त्वमिति चेन्न हि योग्यताज्ञानस्य शाब्दबोधे नि. श्चयत्वेन हेतुता बमो, येनोक्तदोषोऽवकाशसादयेत् । किन्तु संशयनिश्चयसाधारणशानत्वेन । तस्य च न दौर्लभ्यम् । पयसा सिञ्च. तीत्यादौ सेकः पयः करणको न वेति संशयात्मकस्य भूतले घटोऽस्तीत्यादौ च प्रात्यक्षिकनिश्चयरूपस्याऽपि तत्प्राक्सौलभ्यात् । स्व. जन्यशाब्दबोधस्यैवान्वयबोधप्रतिबन्धकतयोक्तबोधात्तत्सम्भवात् ।
केचित्तु लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यतद्वत्ताबुद्धित्वाधच्छिन्नं प्रति तदभाववत्ताज्ञानाभावस्य हेतुतया शाब्दबोधस्यापि तत्कायंतावच्छेदकाक्रान्ततया अयोग्यताज्ञानसत्त्वे तदभावादेव शाब्दबोधकरणे कृतं योग्यताज्ञानस्य तद्धेतुतया। कार्यतावच्छेदक. कोटौ प्रत्यक्षान्यत्वनिवेशेनैव लौकिकप्रत्यक्षनिरासेऽपि घटाधुपनीतभानसंग्रहाय तद्विहायाजन्यान्तद्वयनिवेशः।
नच बाधनिश्चयाभावत्वापेक्षया संशयनिश्चयसाधारणयोग्यता. शानत्वेन हेतुत्वे लाघवमिति वाच्यम् । स्यादेवं यदि बाधाभावस्य शाब्दत्वं कार्यतावच्छेदकं कल्प्येत, किन्तु शाब्दबोधस्य बाधाबा. वकार्यतावच्छेदकाकान्ततया तहशायां प्रतिषेधामः । अत एव घ. टोऽभिधेय इत्यादावुक्तबाधाप्रसिद्धावपि न क्षतिः । तत्संसर्गाव. च्छिन्नतरप्रकारकर्ताद्वशेष्यकतवृत्तित्वस्यैव तत्कार्यतावच्छेदक त्वात् । घटाभावेऽभिधेयत्वप्रतियोगिकत्वभ्रमदशामादाय तदभाव. स्यापि प्रसिद्धश्चत्याहुः।
अत्र वदन्ति । न हि तद्विशिष्टबुद्धिसामान्ये बाधाभावः कारणं, किन्तु बाधवतार इच्छासत्व आहार्यप्रत्यक्षोदयादिच्छाया उत्तेज. कत्वानुरोधेन प्रत्यक्षस्यैव प्रतिबध्यतावच्छेदकत्वावश्यकतयोपनी. तभानसाधारणप्रतिबध्यतायाः शाब्दबोधेऽसम्भवात्। न च तथाप्यनुमितिसाधारणप्रतिबध्यतायाः शाब्दबोधसाधारण्यं शङ्यम् । त. साधारणस्य प्रत्यक्षान्यज्ञानत्त्वस्य प्रतिबध्यतावच्छेदकत्वे प्रत्यक्षान्यत्वज्ञानत्वयोर्मिथो विशेष्यविशेषणभावे विनिगमनाविरहणा. नेकप्रतिबध्यप्रतिबन्धकभावापत्तेः। प्रतिबध्यतावच्छेदकगौरवापत्ते.