________________
स्फोटनिरूपणम् ।
इत्थं व्याकरणादिना गृहीतशक्तिकपदसमुदायादनासन्नादऽगुहोतार्थतात्पर्य्यकादयोग्यादनाकाङ्क्षाच शाब्दबोधादर्शनादासस्यादिकमपि शक्तिशानजन्य पदार्थोपस्थित्या बोधजननीये सहकारि । आसत्तिश्च प्रकृतबोधानुकूल पदाव्यवधानम् । अस्ति च, "पर्वतो व ह्निमान्” रत्यत्र तादृशपदाव्यवधानं, न तु "गिरिर्भुक्तं वह्निमान् दे वदत्तेन" इति न ततो बोधः । अत एव, "स्थाल्यां तण्डुलं पचति" इत्यत्र तण्डुलकर्मकस्थाल्यधिकरणकक्रियेति बोधे नानासन्नता । तदूर्घटकसर्वेषां पदानां तादृशबोधानुकूलत्वात् स्थाल्यां पचतीत्ये. तावन्मात्रबोधे तु तदनासत्तमेव । श्लोकादौ तु योजनावाक्यादेव बोधः । तद्भ्रमेणाऽनासन्नाद् बोधदर्शनात्तज्ज्ञानमेव हेतुरिति स स्प्रदायः ।
४११
नव्यास्तु- मौनिश्लोकादन्वयबोधानुदयप्रसङ्गाभोक्ताव्यवधानमा. सत्तिः । आकाङ्क्षादिसत्वे तात्पर्यज्ञाने च सति व्यवहितादव्यवहिताच्च बोधदर्शनात्तज्ज्ञानविलम्बेन शाब्दाविलम्बाच्च, किन्त्विदं पदमेतत्पदेन सम्भूयाऽन्वयबोधं जनयत्वित्याकारकपदतात्पर्य्यरूपाभिसन्धापयित्रिच्छा सा, न तु वक्त्रिच्छा । मौनिश्लोकादौ दोषतादवस्थ्यात् । शुक्रवाक्ये तु भगवत्तात्पर्य्यमादायैव गतिरित्याहुः।
वस्तुतस्तु सत्यऽर्थतात्पर्य्यज्ञाने पदतात्पर्य्यज्ञानविलम्बेन थाब्दबोधाविलम्बाद् वृत्त्या पदजन्यपदार्थानामव्यवधानेनोपस्थितिरेवासत्तिः स्वरूपसत्यन्वयबोधे हेतुः । न हि पदार्थानामनुपस्थितान्वयधीः केनाप्यनुभूयते इति । अर्थतात्पर्य त्विदं पदमेतस्मिन्नर्थेऽपदार्थान्वयं बोधयत्वित्यभिसन्धापयित्रिच्छा विसंवादिशुकवा क्ये तु भगवत एव सा । विसंवादिनि तु शिक्षयितुरेव । अस्य सं. शये व्यतिरेकनिश्वये चान्वयाबोधात्तद्भ्रमेणान्वयबोधदर्शनाच्च त ज्ज्ञानमप्यन्वयबोधे हेतुः । अधिकमग्रे वक्ष्यते ।
शाब्दबोधे योग्यताया ज्ञानं कारणमिति बहवः । सा चैकपदार्थेऽपरपदार्थस्य यादृशसंसर्गवत्त्वं तादृशसंसर्गवत्तैव प्रकृतशाब्दबोधविषयसंसर्गवत्त्वमिति यावत् । अस्ति च पयसा सिञ्चति' इत्यत्र सेके पयःकरणकत्वस्य संसर्गः । अत एव करकाऽभिप्रायप्रयु. तपयसा सिञ्चतीति वाक्यं न योग्यम् । पयःपदाऽर्थकरकायां सेककरणत्वाभावात् । यादृशेति विशेषणाच्च 'आकाशं शब्द' इति वा