________________
४१० दर्पणसहिते धैयाकरणभूषणसारे
प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते ।
यदा गुणे तदा तद्वदनुक्तापि प्रतीयते ॥ इति ॥ किश्चान्यथा कर्मणोऽपि क्वार्थतापनिः । पक्वौदनो मया भुज्यत इयत्र द्वितीयायाः प्रकारान्तरेणावारणादित्यास्तां विस्तरः ॥ ६०॥
इति वैयाकरणभूषणसारे क्त्वाद्यर्थनिर्णयः ॥ १२ ॥
स्थमभ्युपेतव्यम् । अन्यथा कर्तुः क्वार्थत्वाभ्युपगमेनोक्तस्थले तृती. यापत्तिवारणेऽपि, 'पक्त्वौदनो मया भुज्यते' इत्यत्रोदनपदोत्तरद्वि. तीयापत्तिः स्यादेव । तत्र पाकक्रियानिरूपितकर्मत्वशक्तेः कृतानभिधानादुक्तरीतेरसम्भवादित्याह-किश्चेति*॥
तत्रेदं बोध्यम् ॥ यदौदने पाकक्रियानिरूपितकर्मत्वमेव शाब्दवि. षयत्वमभिप्रेतं, न तु प्रधानक्रियानिरूपितकर्मत्वस्यापि तदौदनं प. क्त्वा भुज्यते इत्यपि साधु । ओदनस्य भोजनकर्मताया आर्थिककत्वात् । यदा तुभयकर्मत्वस्यैव शाब्दविषयत्वमभिप्रेतं, तदादनपदा. दु द्वितीया असाध्वेव । उक्तव्यवस्थितः। परन्त्वाख्यातवाच्यक्रि. यायाः प्राधान्यतां प्रत्येव क्त्वान्तोपस्थिताः सर्वाः क्रिया गुणीभव. न्ति, न तु तासां परस्परविशेष्यविशेषणभावः। "गुणानां च परा. र्थत्वात्" इतिन्यायात् । एवञ्च स्नात्वा पीत्वा भुक्त्वा व्रजति' 'भुक्त्वा स्नात्वा पीत्वा व्रजति' इत्यधिशेषेण प्रयोगाः। ___ तुमुनस्तादर्थ्यरूपमुद्देश्यत्वमपि द्योत्यम् । “कियार्थायां क्रियायाम्" इत्युक्तेः । तनिष्कर्षश्च पूर्ववदेव तुम्प्रकृत्यर्थोपपदार्थयोस्तादर्थ्यवत समानकर्तृकत्वादिकमपि सम्बन्धः। तथाच, "हरि द्रष्टुं याति' इत्यतो हरिकर्मकभविष्यदर्शनोद्देश्यकं दर्शनकर्तकं यानमिति शाब्दधीः । अनयैव दिशैधानाहारको व्रजतीति बोध ऊहनीयः ॥६०॥
इति भूषणसारदर्पणे क्त्वाद्यर्थनिरूपणम् ॥ १२॥