________________
: क्त्वाद्यर्थनिर्णयः।
४०९ क्त्वा इत्येव तदर्थात् । अन्यथा समानकर्तरीत्येव सूत्रन्यासः स्यात् । तृतीयापादानं तु आख्यातार्थक्रियायाः प्रधानभूता. याः कर्तुरभिधाना प्राधानानुरोधेन गुणे कार्यप्रवृत्तेर्न सम्भ. वति । उक्तश्च वाक्यपदीये
(१)प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिर्गुणाश्रया तत्र प्रधानमनुरुद्ध्यते ॥
तदेव विशदयति-*अन्यथेति* ॥ एतत्सूत्रस्य कर्तृशक्तिप्रतिपा. दकत्वे इत्यर्थः ॥ समानेति ॥ तदुपादानाच कर्तृदयस्यैव लाभः॥ *न्यासः स्यादिति*॥"कर्तरि कृत्" इतिवत्। वस्तुतस्तु न तथा सम्भ. वति “कर्तरि कृत् " (पा० सू०३।४।६७) इति सूत्रेणैव गतार्थस्वाद , "अव्ययकृतो भावे" इति वार्तिकविरोधाचेति भावः । उ. तापत्ति निरस्यति ॥ *तृतीयापादनं विति*॥ *आख्यातार्थक्रि. यायाः इति* ॥ क्रियाद्वयनिरूपितकर्तृशक्त्योरनेकत्वेऽपि प्रधानतिङ. न्तार्थक्रियानिरूपितकर्तृशक्तराख्यातेनाभिधाने तत्र कृदन्तार्थक्रि. यानिरूपिततच्छक्तेरनभिहिताया अप्यभिहितस्वातिदेशस्य अनभि. धाने त्वनभिहितत्वातिदेशस्य चोकभाष्यप्रामाण्येनाऽभ्युपगमान्न तृतीयापत्तिः प्रकृते इति भावः॥
प्राधानेतरयोरिति* ॥ गुणप्रधानक्रियानिरूपितशक्तिवयं य. त्रैकस्मिन् द्रव्ये तत्र गुणक्रियानिरूपितशक्तिः प्रधानक्रियानिरूपित. शक्तिधर्ममनुरुणद्धीत्यर्थः । उक्तातिदेशेऽपि तत्सम्मतिमाह-*प्रधानविषयेति* ॥ प्रधानं विषयो निरूपकं यस्याः सा शक्तिर्यदा प्रत्यये. न तिङाऽभिधीयते तदा गुणक्रियावाचकधातूत्तरप्रत्ययेनाऽनभिहितवत् प्रतीयत इत्यर्थः। इदमुपलक्षणम् । अभिहिताया अपि अ. नभिहितत्वप्रतीतेः। तत्र, 'प्रासादे आस्त' इत्युदाहाय॑म् । अवश्यं चे.
(१) इमे च हरिकारिके 'स्वादुमि णमुल्' इति सूत्रस्य भाज्यार्थानुवादिन्याविति वोध्यम् ।