SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ४०८ दर्पणसहिते वैयाकरणभूषणसारे मयेति तृतीयाप्रमङ्गश्च । नचाख्यातेन कर्तुरभिधानान्न सेति वाच्यम् । भोजनक्रियाकर्तुरभिधानेऽपि पाकक्रियाकर्तुस्तदभाचात् । अनभिहिते भवतीति पर्युदासाश्रयणात्(१)। अत एव प्रासादे आस्ते इत्यत्र प्रसादनक्रियाधिकरणस्याभिधा. नेऽप्यस्तिक्रियाधिकरणस्यानभिधानात् सप्तमीति भाष्ये स्पष्टम् । तस्मात् क्त्वाप्रत्ययस्य कर्तृवाचित्वमावश्यकमिति । तन्न । सूत्रातस्य वाच्यत्वालाभात् । समानकर्तृकयोः क्रिययोः पूर्वकाले ति* ॥ “समानकर्तृकयोः पूर्वकाले" (पा० सू० ३।४। ८१।) इत्युभयोः पदयोबहुव्रीहित्वाविशेषेण पूर्वकालस्य वाच्यत्वमितरार्थस्य द्योत्यत्वमिति वैषम्ये बीजाभावादिति । वैषम्ये बाधकमा. ह-*अन्यथेति* ॥ तस्य काप्रत्ययावाच्यत्वे इत्यर्थः ॥ तृतीयाप्रसङ्गश्चेति ॥ क्वाप्रत्ययेन कर्तुरनभिधानादिति भावः ॥ ___ ननु "अनभिहित" इति सूत्रे नमः प्रसज्यप्रतिषेधाऽर्थकतया प्रकृते कर्तुराख्यातेनाभिधानान्न तृतीयापत्तिरित्याशय निराचष्टे-* न चेति* ॥ न चानुपपत्या तत्स्वीकारः। वक्ष्यामाणभाष्यविरोधा. त् । तथाचैकेनाभिधानेऽप्यन्येनानभिधानात् तृतीयापत्तिरित्यभिप्रा. येणाह-*पाकक्रियाकर्तुरित्यादि* ॥ *तदभावादिति* ॥ अभिहिः तभिन्नत्वादित्यर्थः ॥ *अनभिहित इति* ॥ न प्रसज्यप्रतिषेधो, वाक्यभेदादिदोषात् ॥ *अत एवेति* तत्सूत्रस्थनञः पर्युदासार्थक स्वादेवेत्यर्थः ॥ भाष्ये इत्यस्यानभिहितसूत्रस्थे इति शेषः ॥ *त. स्येति ॥ समानकर्तृकत्वस्येत्यर्थः । द्विवचनप्रकृतिबहुव्रीहिणा समानकर्तृकत्वस्य धात्वर्थविशेषणतैव प्रतीयते, न तु विधीयमान क इति भावः। (१) पर्यदासाश्रयणादिति । प्रसज्यप्रतिषेधाश्रयणे त अभिहिते न भवतीत्यर्थात् तिङा कर्तृत्वशक्तेरभिधानान्न मयेति तृतीयापत्तिः। पर्युदासाश्रयणे तु अभिहितभिन्ने भवतीत्यर्थादनभिहितभुजिक्रि. यानिरूपितकर्तृत्वशक्तिमादाय तृतीयापतिर्दृढैवति भावः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy